________________
ध्यायः ५. ]
संस्कुतटीका - भाषाटीकासमेतः ।
( ११९ ) तात्कालिकाकस्य न्यूनत्वे मध्यका लिकत्रिभोनलग्नात् तात्कालिकार्कस्याधिकत्वे मोक्षकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्व इत्यर्थः । लम्बनैकता लम्बनैक्यम् । स्पर्शमध्ययोर्भेदे तात्कालिकलम्बनयोर्योगः । मध्यमोक्षयोर्भेदात्तात्कालिक लम्बनयोयोग इत्यर्थः । स्वकीये स्वकीये स्थित्यर्द्ध संयुक्ता कार्या । स्पर्शस्थित्यद्धे स्पर्शमध्यकालिक लम्बनयोर्योगों योज्यः । मोक्षस्थित्यर्थे मोक्षमध्यकालिक लम्बनयोर्योगो योज्य इत्यर्थः । स्पर्शस्थित्यर्ध मोक्षस्थित्यर्ध च स्फुटं भवति । आभ्यां चन्द्रग्रहणाक्त दिशा मध्यग्रहणकालात्पूर्वमपरत्र क्रमेण स्पर्शमोक्षकालौ स्त इत्यर्थसिद्धम् । अथोक्तरीत्या विमदर्धपि स्पष्टत्वमतिदिशति विमर्दार्ध इति । स्पर्शमदर्द्धमोक्षमदधिं चन्द्रग्रहणाधिकारोक्तरीत्या स्पष्टशरेण सकृत्साधिते उक्तवत् । स्थित्यर्धेनाधिकात्प्राग्वत्तिभ्यं तालं - बनं पुनः ' इत्याद्युक्तरीत्या स्थित्यर्धस्थाने मदर्धिग्रहणेन ग्रासमोक्षोद्भवमित्यत्र संमीलनोन्मीलनोद्भवमिति ग्रहणेन प्राग्ग्रहणमित्यत्र संमीलनग्रहणेन मौक्षिकमित्यत्रोन्मीलनग्रहणेन स्फुटे साध्ये | अपिः समुच्चये । चकारात्ताभ्यां सम्मीलनोन्मीलनकालौ मध्यग्रहणकालात्पूर्ववत्साध्यावित्यर्थः । अत्रोपपत्तिः । स्थित्यर्धीनयुतो मध्यग्रहणकालः स्पर्शमोक्षकालः । मध्यकालिक लन्चनसंस्कारात् । स्पर्शमोक्षकालिकलम्बनसंस्कारस्वापेक्षितत्वाच्च । नहि यः कालो लम्बनसंस्कृतः स्फुटः स त्वभिन्नकालिकलम्बनसंस्कृतः स्फुटः स्यात्सम्बन्धाभावात् । पूर्वस्पर्शमोक्षकालयोरज्ञानात् तात्कालिक लम्बन ज्ञानाभावाच्च । अतो मध्यकालज्ञानार्थं यथा तिथ्यन्तादसकृलम्बनं प्रसाध्य तिथ्यन्ते संस्कृत्य मध्यकालस्तथा स्पर्शमोक्षस्थित्यर्धहीन युक्त तिथ्यन्तकालाभ्यां स्पर्शमोक्षतिथ्यन्तरूपाभ्यां प्रत्येकं लम्बनमसकृत्प्रसाध्य स्वस्वतिथ्यन्ते संस्कृत्य स्पर्शमोक्षकालौ स्फुटौ तन्मध्यकालयोरन्तरं स्फुटं स्थित्यर्धम् । तत्रर्णलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ यदा मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलंबनं च न्यूनं तदा स्पर्शस्थित्य धानतिथ्यन्तस्याधिकलम्बनोनितस्य स्पर्शकालत्वान्यूनलम्बनोनितस्य तिथ्यन्तस्य मध्यकालत्वातयोरन्तरे तिथेः समत्वेन नाशात्स्पर्शस्थित्यर्धं स्पर्शकालिकलम्बनेन युतं मध्यकालिक लम्बनेन हीन मेति लम्बनयोरन्तरं तत्र धनं योज्यम् । एवं मोक्षास्थित्यर्धयुततिथ्यन्तस्य न्यूनलम्बनोनितस्य मोक्षकालत्वान्मध्यमोक्षकालयोरन्तरे पूर्वरीत्या मध्यमो . क्षकालिकयोर्लम्बनयोरन्तरं धनं मोक्षस्थित्यर्धे योज्यम् । यदा तु मध्यलम्बनादीनं स्पर्शलंबनं मोक्षलंबनं चाधिकं तदा न्यूनलम्बनहीनस्य स्पर्शकालत्वादधिकं लंबनम् । हीनस्य मध्यकालत्वादुक्तरीत्या तदन्तरे स्पर्शस्थित्यर्थे लंबनान्तरं हीनम् । एवमधिकलंबनहीनस्य मोक्षकालत्वान्मध्यमोक्षयोरन्तरे मोक्षस्थित्यर्धे लंबनान्तरं हीनम् । धनलंबनेन स्पर्शमध्यमोक्षोत्पत्तौ तु यदा मध्यलंबनान्न्यूनं स्पर्शलंबनं मोक्षलंबनं चाधिकं तदा स्पर्शस्थित्यर्धेनातिथ्यन्तस्य न्यूनलंबनाधिकस्य स्पर्शकालत्वादधिकलंबनाधिक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com