________________
(११८) सूर्यसिद्धान्तः
[ पंचमो. लिका ग्रहाः। स्पर्शस्थित्यनिमित्तं पूर्व चाल्याः । मोक्षस्थित्यर्धनिमित्तमने चाल्याः । तत्कालयोः प्रत्येकं नतिशरौ प्रसाध्य स्पष्टशरः साध्यः । ततः प्रथमकालिक स्पष्टशरात्स्थित्यर्धमनेन पूर्व तिथ्यन्तकालिकग्रहान्प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्य साध्यम् । एवमसकृत्पर्शस्थित्यधम् । एवमेव द्वितीयकालिकस्पष्टशरास्थित्यर्धमनेनाग्रे तिथ्यन्तकालिकग्रहान्प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यधै सा ध्यम् । एवमसकृन्मोक्षस्थित्यमिति । अथाभ्यां स्पर्शमोक्षस्थित्यर्धाभ्यां क्रमे हीनयुता.. दर्शान्तकालात्तु प्राग्वदुक्तरीत्या लम्बनं पुनरसकृद्रासमोक्षोद्भवं' स्पर्शमोक्षकालिकं कार्यम् । तथाहि । स्पर्शस्थित्यर्धहीनात्तिथ्यन्तात्तात्कालिकसूर्यालग्नदशमभावौ प्रसाध्योक्तरीत्यास्मालम्बनं साध्यम् । तेन स्पर्शस्थित्य/नतिथ्यन्तं संस्कृत्यास्मालम्बनमनेनापि स्पस्थित्य|नतिथ्यन्तं संस्कृत्यास्मालम्बनमेवमसकृत्स्पर्शकालिकं लम्बनम् । एवमेव मोक्षस्थित्यर्धयुतात्तात्कालिकसूर्याल्लनदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम् । तेन मोक्षस्थित्यर्धयुतीतथ्यन्तं संस्कृत्यास्मालंबनमनेनापि मोक्षस्थित्यर्धयुततिथ्यन्तं संस्कृत्यास्मालम्बनमेवमसकृन्मोक्षकालिकं लंबनमिति । प्राक पाले त्रिभोनलग्नापूर्वभागे त्रिभोनलग्नाधिके वो मध्यान्मय कालिकात् । अग्रोक्तलम्बनस्य विभक्तिविपरिणामादन्येन लम्बनात्प्रग्रहणं । प्रग्रहण स्पर्शः। स्पर्शकालिकम् । अत्रापि लम्बनमित्यस्यान्वयः । लम्बनं चेदधिकं स्यात् । मौक्षिकं मोक्षकालसम्बन्धि लंबनं न्यूनं स्यात् । पश्चार्दै त्रिभोनलग्नात्पश्चिमभागे त्रिभोनलग्नादीने रवौ । तुकार समुच्चयार्थकचकारपरः । विपर्यय उक्तवैपरीत्यम् । मध्यकालिकलम्बनात्स्पर्शकालिक लम्बनं न्यूनं मोक्षकालिकं लम्बनमाधकमित्यर्थः । तदा तर्हि तन्मध्यहरिजान्तरम् । तयोः स्पर्शमोक्षकालिकलम्बनेन प्रत्येकमन्तरं मोक्षस्थित्यर्धे योज्यम् । प्राग्रहणे स्पर्शस्थित्यधैं तथा देयम् । मोक्षमध्यकालिकलम्बनयोरन्तरं मोक्षस्थित्यर्धे योज्यम् । स्पर्शमध्यकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे योज्यमित्यर्थः । यत्र यस्मिन्काले विपर्यय उक्तवैपरीत्यं प्राक्कपाले मध्यकालिकलम्बनात्स्पर्शकालिकलम्बनं न्यूनं मोक्षकालिकलंबनमधिकं पश्चिमकपाल तु मध्यकालिकलम्बात्स्पर्शकालिक लम्बनमधिकं मोक्षकालि कलम्बनंन्यूनं भवतीत्यर्थः। तत्रैतन्मोक्षस्पर्शमध्यकालिकं हरिजान्तरकं लम्बनान्तरं मोक्ष स्थित्यः मध्यमोक्षकालिकलम्बनयोरन्तरं स्पर्शस्थित्यर्धे मध्यस्पर्शकालिकलम्बनयोरन्तमित्यर्थः। शोध्यं हीनं कुर्यात् । एतल्लम्बनान्तरं योज्यं शोध्यं वा कपालैक्ये द्वयोः स्पर्शमध्ययोर्मध्यमोक्षयोर्वेककपाले स्वस्वकालिकत्रिभोनलनात्स्वस्वकालिकसूर्य उभयत्राधिके न्यूनेवेत्यर्थः । उक्तं कथितम् । तद्भेदे तयोः पईमध्ययोर्मध्यमोक्षयोश्च मेदे कपालभेदे पर्शकालिकत्रिभोनलग्नात्तात्कालिकसूर्यस्याधिवये मध्यकालिकत्रिमोनलग्ना
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com