________________
(१२.) सूर्यासेद्धान्तः
[पचमा:स्य तिथ्यन्तस्य मध्यकालवाचयोरन्तरे लंबनान्तरं स्पर्शस्थित्यर्थे योज्यम् । एवं मोक्षस्थित्यर्धयुता तिथ्यन्तस्याधिकलंबनाधिकस्य मोक्षकालत्वान्मध्यमोक्षयोरन्तरे लंबनान्तरं मोक्षस्थित्यर्धे पूर्वरीत्या योज्यम् । यदा तु मध्यलंबनादाधिकं स्पर्शलंबनं मोक्षलं बनं च न्यून तदा अप्यधिकलंबनाधिकस्य स्पर्शकालत्वाद्धीनलंबनाधिकम्य मध्यकाल त्वात्तयोरन्तर उक्तरीत्या स्पर्शस्थित्यर्धे लंबनान्तरं हीनम् । एवं न्यूनलंबनाधिकस्य मोक्षकालत्वात्तन्मध्यकालान्तरे मोक्षस्थित्यधैं लंबनान्तरं हीनामिति सिद्धम् । नन्वयं लंबनान्तरहीनपक्षो न संगतः। बाधात् । तथाहि । ऋणलंबनस्य क्रमेणापचयात्स्पर्श मध्यमोक्षकालानां यथोत्तरं सम्भवाच्च मध्यकालिकलंबनात्स्पर्शमोक्षकलाालकलंबनयोः क्रमेण न्यूनाधिकत्वमसिद्धम् । एवं धनलंबनस्य क्रमेणोपचयान्मध्यलंबनात् । स्पर्शमोक्षकालिकलंबनयोः क्रमेणाधिकन्यूनत्वमसिद्धम । नहि कदाचिन्मध्य. कालात्स्पर्शमोक्षकालक्रमेणाग्रिमपूर्वकालयोः सम्भवतो येनोक्तं युक्तम् । बाधात् । तथा च लंबनान्तरं योज्यमित्यस्यैवोपपन्नत्वे महतैतावता प्रपंचेन । "हरिजान्तरकं शोध्यं यत्रतत्स्याद्विपर्ययः" इति सर्वज्ञभगवदुक्तं कथं निर्वहतीति चेत् । मैवम् । लंबनसंस्कृतस्पर्शमोक्षकालयोः स्फुटयोर्वस्तुभूतयोः सर्वदा मध्यकालात्क्रमेण पूर्वोत्तरावश्यं. भावित्वेऽपि लंबनासंस्कृतयोः स्थित्य/न युततिथ्यन्तरूपस्पर्शमोक्षकालयोः पारिभाषिकत्वेनावास्तवयोः कदाचिन्मध्यकालर्णधनलंबनाभ्यां स्पर्शस्थित्यर्धमोक्षस्वित्यर्थयोः क्रमेण न्यूनत्वे मध्यकालादाग्रिमपूर्वकालयोः क्रमेण संभवात्स्फुटो निर्वाहः । परनवृणलंबने धनलंबने च मध्यलंबनात्क्रमेण मोक्षस्पर्शलंबनयोधिकत्वासंभवः । मध्यकालात्पूर्वाग्रिमकालयोर्मोक्षस्पर्शयोः पारिभाषिकयोः क्रमेणासंभवात् । अतः साक्षा. कण्ठोक्तेरभावाद्विपर्यय इत्यनेन विपर्ययविशेषस्यैव विवक्षितत्वम् । पूर्व तु साधारण्या च्छब्दस्य साधारण्येन व्याख्यानं कृतमित्यदोषः । ननु तथाप्यसकृलंबनसाधने लंबनस्य स्पष्टस्पर्शमोक्षकालाभ्यां सिद्धत्वेनर्णलंबनात्स्पर्शलंबनं न्यूनं भवत्येव । धनलंबने मोक्षलंबनं न्यून न भवत्येव । मध्यकालाद्वास्तवस्पर्शमोक्षकालयोः क्रमेणाप्रिमपूर्वकालयोरसंभवनिर्णयात् । अन्यथा स्थिरलंबनासंभवात् । किश्वासकलंबनसाधनेन यत्कालास्थिरलंबनं सिद्धं तत्कालस्य सूक्ष्मस्पर्शमोक्षकालत्वात्स्फुटस्थित्यर्धसाधनं व्यर्थम् । तस्य तज्ज्ञानार्थमेवावश्यकत्वात् । नच चन्द्रग्रहणरीत्या स्पर्शमोक्षकालयोर्ज्ञानार्थ स्फुटस्थित्या|क्तिरिति वाच्यम् ।गौरवाद्यर्थत्वाद्धरिजांतरकं शोध्यमित्यस्वानुपपत्तेशेत चेन्न । लंबनयोरसकृत्साधनस्यानंगीकारात् । संकृत्साधितलंबनस्य सांतरत्वेऽपि भगवता स्वल्पांतरेणांगीकाराच्च । अतएंव लंबनं पुनरित्यत्र पुनीरत्यस्य व्याख्यान मंसकृदिति पूर्वमुक्तं न युक्तम् । किंतु मध्यकालार्थ लंबनस्य साधनात्स्पर्शमोक्षकालार्थमपि द्वितीयवारं लंबनं साध्यमिति व्याख्यानम् । पुनरिति वाक्यालंकरणं वा युक्ततरमिति । अथ यदा स्थूलस्पर्शकालणलंबने धनलम्बने च मध्यकालस्तदा स्पर्शस्थि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com