________________
अध्यायः५.] संस्कृतटीका-भाषाटीकासमेतः। (१२१) त्य|नतिथ्यतस्य लंबनहीनस्य स्पर्शकालत्वाल्लंबनाधिकतिथेमध्यकालत्वात्तदन्तरे स्पस्थित्यधैं तात्कालिकलंबनयोर्योगेन युक्तमित्युक्तरीत्योपपद्यते । एवं यदा मध्यकालर्णलंबने स्थूलमोक्षकालश्च धनलंबने तदा लंबनहीनतिथ्यंतस्य मध्यकालत्वात्माक्षस्थि त्यर्धयुततिथ्यंतस्य लबनाधिकस्य मोक्षकालत्वात्तदंतरे मोक्षस्थित्यधैं लंबनयोगयुक्तमित्युपपन्नम् । नचासकलंबनसाधनेन सूक्ष्मस्पर्शमोक्षयोः सिद्धौ सकलंबनांगीकारेणोक्तरी तेः सांतरत्वात्कथं भगवतः सर्वज्ञस्यास्यां रीत्यामभिनिवेश इति वाच्यम् । असकलंबनसाधने प्रयासाधिक्यभयाद्भगवता' सर्वज्ञेन स्वल्पांतरांगीकाराल्लाघवाच चंद्रग्रहणो. क्तरीत्यानुगमार्थ स्फुटस्थित्यर्धसाधनस्यैवोक्तरिति दिक् । वस्तुतस्तु सूर्योदयाद्यत्र प्राक्स्पर्शोऽनंतरं मध्यकालस्तदा मध्यलंबनात्स्पर्शलंबनं सत्रिभलग्नचतुर्थभावसाधितं कदाचिन्यूनं भवति । यत्र चोदयात्पूर्व मध्यः परतो मोक्षस्तत्र कदाचित्सत्रिभलग्नचतुर्भावानीतमध्यकाललंबनात्मोक्षकाललंबनमधिकं भवति । यत्र चास्मात्पूर्व स्पर्शः परतो मध्यस्तदा मध्यकाललंबनाद्रात्रिसंबंधात्स्पर्शकाललंबनं कदाचिदधिकं भवति । यत्र चास्तात्पूर्व मध्यकालः परतो मोक्षस्तदापि मध्यकाललंबनान्मोक्षकाललंबनं रात्रिसंबद्धं न्यूनं न भवति । कदाचिदिति । प्रस्तोदयग्रस्तास्तयोः । कदाचिद्विपर्ययसंभवादरिजांतरकं शोध्यमित्यस्य नाप्रसिद्धिः । एतेन लंबनमसकृन्न साध्यं विपर्यय इति विपर्यय विशेष इति चोक्तं समाधानं निरस्तमिति तत्त्वम् । विमर्दार्धेऽप्युक्तरीतिस्तुल्येति
सर्वमुपपन्नम् । भास्कराचार्यैस्तु “तिथ्यन्ताद्गणितागतात् स्थितिदलेनोनाधिकाल्लम्बनं तत्कालोत्थनतीषु संस्कृतिमवस्थित्यर्धहीनाधिके । दर्शान्ते गणितागते धनमृणं यदा विधायासकृज्ञेयौ प्रग्रहमोक्षसज्ञसमयावे क्रमात्प्रस्फुटौ ॥ तन्मध्यकालान्तरयो। समाने स्पष्टे भवेतां स्थितिखंडके च। दर्शान्ततो मर्ददलोनयुक्तात्सम्मीलनोन्मीलनकाल एवम् ॥” इत्यनेन भगवदुक्तादतिसूक्ष्ममुक्तामत्यलं पल्लवितेन ॥१४॥१५॥१६॥१७॥
भा० टी०-तिथ्यन्तमें स्थित्यर्द्धहीन या योगकरके भसकृत् कर्मके द्वारा स्पर्श और मोक्षकालके लंबसाधन करे । मध्यलग्नके पूर्व में रवि होनेपर. स्पर्शकालीन लंबन, मध्यकालीनकी अपेक्षा और वह मोक्षकी अपेक्षा अधिक होगा । पश्चिम दिशामें होनेसे उलटा होता है। तिसकाल मध्यलग्नके पूर्व होनेसे मोक्षलंबन और मध्यलंबनके अन्तर मोक्षस्थित्यई योग
और स्पर्शलंबन और मध्यलंबनके अन्तर स्पर्शस्थित्यर्द्ध योग, अन्यथा विपरीत करनेसे स्पष्टस्थित्यर्द्ध होगा | स्पर्श और मध्य या मध्य और मोक्ष यदि मोक्षरेखाक दोनों ओर हों, तो लंबनयोग करना चाहिये आर स्थितिदल में योग करना होगा । इस प्रकार विमर्दाई स्थिरकरे ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥
अथाग्रिमग्रंथस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिं फकिकयाह । इात सूर्य ग्रहणाधिकारः । इतिस्पष्टम् । रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे । सूर्यग्रहा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com