________________
सूर्यसिद्धान्तः
( १२२ )
धिकारोऽयं पूर्णो गूढप्रकाशके ॥ इात श्रीसकलगणकसार्वभौमबल्लालदेवज्ञात्मजरंगनाथगणकविरचिते गूढार्थप्रकाशके सूर्यग्रहणाधिकारः सम्पूर्णः ॥ इति पंचमोऽध्यायः समाप्तः ।
पांचवा अध्याय समाप्त ॥
षष्ठोऽध्यायः ।
अथ परिलेखाधिकारो व्याख्यायते । तत्र तं सप्रयोजनं प्रतिजानीतेन च्छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः ॥ ज्ञायन्ते तत्प्रवक्ष्यामि च्छेद्यकज्ञानमुत्तमम् ॥ १ ॥
यस्मात्कारणाद्भहणयोश्चन्द्रसूर्यग्रहणयोः । द्विवचनेन ग्रहणत्वेन पूर्वाधिकारयोरे - काधिकारत्वं निरस्तम् । भेदाः कस्यां दिशि स्पर्शमोक्षौ सम्मीलनोन्मीलने ग्रस्तोंऽशः कियानित्यादिभेदाः । स्फुटा गोलस्थितिसिद्धा वास्तवाः । छेद्यकं गोलस्थितिप्रदर्शकः कल्पितः प्रकारश्छेद्यकपदवाच्यस्तम् । ऋते विना । छेद्यकव्यतिरकेणेत्यर्थः । न ज्ञायन्ते । तत्तस्मात्कारणात् । ग्रहण भेदज्ञानार्थमित्यर्थः । उत्तमं सूक्ष्मं तद्भेदज्ञानसाधकं छेद्यकज्ञानम् । ज्ञायतेऽनेनेति ज्ञानं परिलेखसाधकग्रन्थं सूर्यांशपुरुषोऽहं प्रवक्ष्यामि कथयामि ॥ १ ॥
1
तत्र प्रथमं वलवृत्तं लिखेदित्याह --
भा० टी० - छेदक के बिना दोनों ग्रहणोंकी स्पर्शमोक्षदिक या परिमाणमेद स्पष्ट नहीं होता इससे इस समय छेदक ज्ञान कहता हूं ॥ १ ॥
[ षष्ठो
सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत् ॥
सप्तगुलेनादौ मण्डलं वलनाश्रितम् ॥ २ ॥
आदौ प्रथमं सुसाधितायां जलवत्समीकृतायामवनौ पृथिव्यामभीष्टस्थाने बिन्दु वृत्तमध्यज्ञापकचिह्नं कृत्वा ततश्चिह्नात्सप्तवर्गागुलेनैकोनपञ्चाशदंगुलमितेन व्यासार्धेन मण्डलं वृत्तं वलनाश्रितं प्रागुक्तस्फुटवलनमाश्रितं यत्र वलनाश्रयीभूतं वलनदानार्थे वृत्त मित्यर्थः । लिखेद्ग्रहणभेदज्ञानेच्छुगणक उल्लिखेत् । अत्रोपपत्तिः प्रागुक्ता ॥ २ ॥ मा० टी० - साधितसमतल भूमिमें बिन्दुचिह्न करके ४९ अंगुली व्यासार्द्ध परिमित बलनाश्रय के लिये वृत्त रचना करे ॥ २ ॥
अथ द्वितीयतृतीयवृत्ते आह
ग्राह्यग्राहक योगार्धसम्मितेन द्वितीयकम् ॥
मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम् ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com