________________
घ्यायः ६.] संस्कृतटीका-भाषाटीकासमेतः । (१२३
ग्राह्यग्राहकबिम्बमानांगुलयोर्योगामितनांगुलात्मकव्यासार्धेन द्वितीयमेव द्वितीयक द्वितीयवृत्तं लिखेत् । तद्वृत्तं समाससझं योगोत्पन्नत्वात् । तृतीयकं वृत्तं ग्राह्यबिम्बांगुलार्धमितेन व्यासान लिखेत् । अत्रोपपत्तिः। ग्रहणे शरस्य मानैक्यखण्डन्यूनत्वाद्विक्षेपो मानक्यखण्डवृत्त इति । विक्षेपदानार्थ मानक्यखण्डवृत्तलेखनम् । तत्परिधिकेन्द्रग्राहकार्धब्यासार्धवृत्तेन ग्राह्यवृत्तेऽवश्यं योगात्समाससञ्ज्ञम् । ग्राह्यवृत्तं तु ग्रहण भेदज्ञानार्थमत्युपयुक्तं न हितद्वृत्तं विना तद्भेदज्ञानं संभवति ॥ ३ ॥
भा० टी०-ग्राह्यग्राहक पिम्बमानांगुलीका योगाईपरिमित व्यासार्द्ध लेकर द्वितीय वृत्त (सभासवृत्त) और ग्राह्यग्रहमानार्द्ध लेकर तीसरा वृत्त बनाव ॥ ३ ॥ अथ तवृत्तेषु दिक्साधनातिदेशं स्पर्शमोक्षबलनदानार्थ स्पर्शमोक्षदिनियमं चाह
याम्योत्तराप्राच्यपरासाधनं पूर्ववदिशाम् ॥
प्रागिन्दोहणं पश्चान्मोक्षोऽर्कस्य विपर्ययात् ॥ ४ ॥ दिशामष्टदिशां मध्ये याम्योत्तराप्राच्यपरासाधनं पूर्ववत् । 'शिलातलेऽम्बुसंशुद्धे इत्यादित्रिप्रश्नाधिकारोक्तरीत्या कार्यम् । तथाहि । द्वादशांगुलशकोंमध्यकेन्द्रस्थापितस्याद्यवृत्ते पूर्वाह्ने छायाप्रदेशोऽपराह्ने छायानिर्गमस्तचिह्नाभ्यां मत्स्यमुत्पाद्य रेखायाम्योत्तरा सा वृत्तबाह्येऽधिका सम्मानीया । तदितरभागे वृत्तमध्यपूरणी या वृत्ते याम्यो तरा रेखा भवति । तदग्रमत्स्यात्पूर्वापरारेखा सोभयतो वृत्तबाह्ये सम्माजनीया । सा वृत्ते पूर्वापरा रेखा भवतीति । चन्द्रस्य पूर्वदिशि ग्रहणं ग्रहणारंभः स्पर्श इति यावत् । पश्चिमदिशि मोक्षो ग्रहणान्तः। अकस्य विपर्ययात्स्पर्शमुक्ती ज्ञेयम् । ग्रहणादिरूपस्पर्शः पश्चिमायां ग्रहणान्तरूपमोक्षः प्राच्यामित्यर्थः। अत्रोपपत्तिः । वृत्ते दिक्साधनेन दिशः सममण्डलीयाङ्किताः । एतचिह्नादलनान्तरेण क्रान्तिवृत्तदिशां सत्त्वात् । तत्र स्पर्श मोक्षदिनियमार्थ क्रांतिवृत्तप्राच्यपरानुसारेण चन्द्रसूर्ययोः स्पर्शमोक्षौ निर्णेयौ । ग्रहभोगस्य तदृत्तानुसारित्वात् । शीघ्रगचन्द्रः सूर्यषड्भान्तरितभूच्छायां सूर्यगत्यनुरुद्ध गमनां प्रति पश्चादागत्य मेलनारम्भं करोत्यतश्चन्दबिम्बस्य पूर्वभागे स्पर्शः । भूभा. मतिक्रम्याग्रे चन्द्रो यदा गच्छति तदा चन्द्रस्य पश्चाद्भागे भूभावियोगोऽतः पश्चान्मोक्षः । सूर्य चन्द्रः पश्चादात्याच्छादयत्यतः सूर्यस्य पश्चिमभागे स्पर्शः पूर्वभागे मोक्ष. इति ॥ ४ ॥ __ भा० टी०- पूर्ववत् दक्षिण उत्तर पूर्व पश्चिम चारों दिशामें गई रेखाको साधन करे। चन्द्रग्रहण पूर्वमें स्पर्श और पश्चिममें मोक्ष होता है । परन्तु सूर्यग्रहणमैं इससे विपरीत होता है ॥ ४॥ अथ वलनवृत्ते बलनदानमाह
ययादिशं प्राग्रहणं वलनं हिमदीधितेः॥ मौक्षिकं तु विपर्यस्तं विपरीतमिदं खेः॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com