________________
(१२४) सूर्यसिद्धान्तः।
[ षष्टो:चंद्रस्य ग्राह्यस्य स्पार्शिकं वलनं पूर्वचिह्नायथादिशं दक्षिणं चेद्दक्षिणाभिमुखमुत्तरं चेदुत्तराभिमुखं पूर्वापरसूत्रादर्धज्यावद्वलनाश्रितवृत्ते देयम् । अतएव तदृत्तं वलनाश्रितसञ्ज्ञम् । मौक्षिकं मोक्षकालिकं तुकाराचन्द्रस्य वलनम् । विपर्यस्तं विपरीतं पश्चिमचिह्नात्पूर्वापरसूत्रादर्धज्यावद्दक्षिणं चेदुत्तरदिगभिमुखमुत्तरं चेदक्षिणदिगाभिमुखं, देय. मित्यर्थः । सूर्यग्रहणे विशेषमाह । विपरीतमिति । सूर्यस्य ग्राह्यस्येदं स्पार्शिकं मौक्षिकं वलनं विपरीतं व्यस्तम् । मौक्षिकं वलनं पूर्वचिह्नात्पूर्वापरसूत्रादर्धज्यावद्दक्षिणं चेद्दक्षिणदिगभिमुखमुत्तरं चेदुत्तरदिगभिमुखं स्पार्शिकं वलनं पश्चिमचिह्नात्पूर्वापरसूत्रादर्ध ज्यावद्दक्षिणं चेदुत्तरदिगभिमुखमुत्तरं चेदक्षिणदिगभिमुखं देयमित्यर्थः । अत्रोपपत्तिः । चन्द्रस्य पूर्वभागे स्पर्श इति सममण्डलपूर्वचिह्नाद्वलनान्तरेण स्पर्श इति तवृत्ते यथाशं स्पार्शिक वलनं देयम् । पश्चिमोत्तराभिमुखस्य दक्षिणत्वादक्षिणाभिमुखस्योत्तरत्वान्मौक्षिकं वलनं पश्चिमचिह्नाद्विपरीतं देयम् । सूर्यस्य तु पश्चिमभागे स्पर्शात्पश्चिमचिह्नात्स्पार्शिकं वलनं व्यस्त देयम् । पूर्वभागे मोक्ष इति मौक्षिकं वलनं पूर्वचिह्नाद्यथाशं देयमिति ॥ ५ ॥ __ भा० टी०-वलनाश्रयवृत्तके पूर्वभागमें चन्द्रग्रहणके स्थळमें स्पर्श वलनादिकके अनुसार ज्यारूपमें वल नकी रचना करे । परन्तु मोक्षकालमें बसनादेशाकी विपरीत दिशामें वृत्तके पश्चिमाईमें ज्याकी रचना करे । सूर्यग्रहणम इससे उलटा होगा ॥५॥ अथ द्वितीयवृत्ते स्पार्शिकमौक्षिकविक्षेपयोदानमाह
वलनापानयेन्मध्यं सूत्रं यद्यत्र संस्पृशेत् ॥
तत्समासे ततो देयो विक्षेपो ग्रासमौक्षिको ॥ ६॥ प्रथमवृत्ते यत्र स्पार्शिकवलनाग्रं यत्र च मौक्षिकवलनाग्रं ज्ञातं तस्माद्यत्प्रत्येकं सूत्रं रेखामित्यर्थः । मध्यं वृत्तमध्यबिन्दु केन्द्ररूपं प्रति नयेत् । तदेवात्मकं' सूत्रं समासे समासाख्यद्वितीयवृत्तपरिधौ यत्र यस्मिन्प्रदेशे संस्पृशेत् स्पर्श कुर्यात्ततस्तत्सूत्रादवधिरूपात्समासवृत्तेऽर्धज्यावद्यथादिशं स्पाशिकमौक्षिको विक्षेपौ यथायोग्यं देयौ । अत्रोपपत्तिः । वलनाग्रसूत्रं मानक्यखण्डवृत्ते' यत्र लग्नं तत्रक्रान्तिवृत्तप्राच्यपरा वा ततः सूर्याच्चन्द्रस्य विक्षेपान्तरेण सत्त्वात्समासवृत्ते वलनाग्रसूत्राद्विक्षेपो देयो. ग्राहकविम्वकेन्द्रज्ञानार्थम् । परं सूर्यग्रहणे । चन्द्रग्रहणे तु चन्द्रस्य विक्षेपवृत्तत्वात्तदा नतिवलनदानादवगतवलनापरेखामानैक्यखण्डवृत्तं यत्र लग्नात्तत्र क्रान्तिवृत्तानुसृतप्राच्यपराविक्षेपमण्डले तत्स्थाने छाद्याचन्द्राच्छादकः सूर्यो विक्षेपान्तरेण विक्षेपदिग्विपरीत दिशि भवतीति वलनाग्रसूत्रात्समासवृत्तेऽधज्यावच्छरो व्यस्तो देय इति सिद्धम् ॥ अत एवं विपरीताः शशाङ्कस्यत्यग्र उक्तम् ॥ ६॥
भा० टी०-वलनाग्रसे मध्यविन्दुतक सूत्र रचना करे। इस सूत्रने समास-वृत्तको जहाँपर स्पर्श किया है उसी सूत्रके ऊपर• समास · वृत्तम स्पर्श और मोक्ष विक्षपके परीमाणकी न्यानिमाण करे ॥ ६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com