________________
घ्यायः ६. ]
संस्कृतटीका - भाषाटीकासमेतः ।
व्यय ग्राह्यवृत्ते स्पर्शमोक्षस्थानज्ञानमाहविक्षेपायात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ॥ तद्राह्यविन्दुसंस्पर्शाद्रिमोक्षौ विनिर्दिशेत् ॥ ॥ ७ ॥
विक्षेपाग्रसमावृत्ते यत्र लग्नं तस्मात्सूत्रं रेखामित्यर्थः । अत्र रेखा सरला नायातीति शङ्कया प्रथमतोsवधिद्वयान्तं सूत्रं धृत्वा तदनुसारेण रेखा कार्येति सूचनार्थ सूत्रोक्तिः सर्वत्रेति ध्येयम् । पुनर्द्वितीयवारं पूर्ववलनाग्राद्रेखाया मध्यकेन्द्रावधिकायाः कृतत्वात्तथैव विक्षेपाप्राद्रे खामित्यर्थः । वृत्तमध्यरूपकेन्द्रबिन्दु प्रति गणकः प्रवेशयेत्प्रविष्टं कुर्या दित्यर्थः । तद्रेखाग्राह्यबिम्बवृत्तपरिध्योः संयोगाद्रासमोक्षौ स्पर्शमोक्षौ' गणको विनिदिशेत्कथयेत् । स्पाशिकशराग्रसूत्रं ग्राह्यवृत्ते यत्र लग्नं तत्र स्पर्शः । मौक्षिकशराग्रसूत्रं ग्राह्यवृत्ते यत्र लग्नं तत्र मोक्ष इत्यर्थः । अत्रोपपत्तिः । मानैकखण्डवृत्ते यत्र raatara मा |हकार्धेन वृत्तं ग्राहकवृत्तं ग्राह्यवृत्ते यत्र लग्नं तत्र स्पर्शमौक्षी भवतः । तत्र वृत्ताकरणलाघवाद्धाह केकेन्द्राद्भाह्यकेन्द्रं यावत्सूत्रं मानैक्यखण्डमितं ग्राह्यवृत्ते यत्र लग्नं तत्र परिध्योः स्पर्शमोक्षौ स्वस्वव्यासार्धयोगात् ॥ ७ ॥
भा० टी० – समासवृत्तवाले विक्षेपायते मध्यविन्दुगत सूत्रमें जहां पर ग्राह्यवृत्तको स्पर्श किया है, वही दोनों स्थान स्पर्श और मोक्षके स्थान हैं ॥ ७ ॥
अथ ग्रहणे विक्षेपस्य दिग्व्यवस्थां मध्यग्रहणज्ञानाथै मध्यकालिक्वलनदान व श्लोकाभ्यामाह
नित्यशोऽर्कस्य विक्षेपाः परिलेखे यथादिशम् || विपरीताः शशांकस्य तद्वशादथ मध्यमम् ॥ ८ ॥ वनं प्राङ्मुखं देयं तद्विक्षेपकता यदि ॥ भेदे पश्चान्मुखं देयमिन्दोर्भानोर्विपर्ययात् ॥ ९ ॥
( १२५. )
अर्कस्य ग्रहणे चन्द्रविक्षेपाः परिलेखे ग्रहणभेददर्शनप्रकारेण यथादिशं यथास्थितदिशं नित्यशो नित्यं ज्ञेयाः । चन्द्रस्य ग्रहणे चन्द्रविक्षेपा विपरीता दक्षिणादुत्तरा उत्तराश्चेदक्षिणा । एतदनुरोधेनैव स्पाशिकमौक्षिकविक्षेपौ देयौ । न यथागत दिशा विति ज्ञेयम् । अथानन्तरं तद्वशान्मध्यग्रहणकालिक विक्षेपदिशः सकाशात्सूर्यग्रहणे मध्यग्रहणकालिकस्पष्टविक्षेपादिविचह्नाच्चन्द्रग्रहणे मध्यकालिकविक्षेप दिग्विपरीतदिक्विादित्यर्थः । यदि यहत्यिर्थः । तद्विक्षेपैकता तद्वलनं विक्षेपो मध्यग्रहणकालिक विक्षेपः । अनयोरकतैक्यं दिक्सम्बन्धेनेति शेषः । एकदिशीत्यर्थः । अत्र चन्द्रविक्षेपदिग्य या स्थितैव च विपरीतदिगिति ध्येयम् । प्राङ्मुखं पूर्वचि - द्वितं मुखम् । वलनाश्रितवृत्तेऽर्धज्यावच्चन्द्रस्य मध्यमं वलनं मध्यग्रहणकालिकं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com