________________
(१२६) सूर्यसिद्धांत:
[ षष्टोऽस्फुटं वलनं देयम् । भेदे वलनविक्षेपे दिशोभिन्नत्वे पश्चान्मुखम् । वलनाश्रित वृत्तेऽर्धज्यावन्मध्यग्रहणकालिकं चन्द्रस्य वलनं पश्चिमचिह्नसम्मुखं देयम् । सूर्यग्रहणे विशेषमाह -भानोरिति । सूर्यग्रहणे सूर्यस्य वलनं विपर्ययादुक्तवैपरीत्यात् । एकदिशि पश्चिमचिह्नसम्मुखं भिन्नदिशि पूर्वचिह्नसम्मुखं देयमित्यर्थः । फलितार्थस्तु चन्द्रग्रहणे मध्यकालवलनदिक्तत्कालविक्षेपयथागतदिशोंदक्षिणत्वे. उत्तरचिबादलनाश्रित वृत्तेऽर्धज्यावन्मध्यवलनं पूर्वचिह्नाभिमुखं देयम् । तयोरुत्तरत्वे दक्षिणचिह्नात्पूर्वाभिमुखं वलनं देयम् । यदि दक्षिणवलनमुत्तरविक्षेपस्तदा दक्षिणदिक्चिह्नादर्धज्यावत्पाश्चमंचिह्नाभिमुखं वलनं देयम् । यद्युत्तरं वलनं दक्षिणविक्षेपस्तदा वलनाश्रितवृत्तउत्तरचिह्नात्पश्चिमचिह्नामिमुखं वलनमर्धज्यावद्देयम् । सूर्यग्रहणेतु द्वयोर्दक्षिणत्वे वलनाश्रितवृत्ते दक्षिणचिह्नात्पश्चिमचिह्नाभिमुखं वलनं देयम् । उत्तरत्वे उत्तरचिह्नात्पाश्चमाभिमुख देयम् । यदि दक्षिणं वलनमुत्तरविक्षेपस्तदोत्तरचिह्नात्पूर्वाभिमुखम् । यद्युत्तरं वलनं दक्षिणविक्षेपस्तदा दक्षिणचिह्नात्पूर्वाभिमुखं देयमिति । भास्कराचार्यस्त्वेतदुक्तफलितं लाघवेन दक्षिणोत्तरवलनं क्रमण सव्यापसव्यं देयमित्युक्तम् । अत्रोपपत्तिः। प्रथमश्लोकोपपत्तिः स्पार्शिकमौक्षिकशरदानोपपत्तावुक्ता । ग्राह्यबिम्बकेन्द्राद्विक्षपान्त. रेण ग्राहकबिंबकेन्द्रं भवति । शरस्य कदम्बाभिमुखत्वेन केन्द्रात्कदम्बाभिमुखशर दानार्थ कदम्बज्ञानं वलनाश्रितवृत्तआवश्यकमतो वलनान्तरण स्वादिग्भ्यः क्रान्तिवृत्तदिशां सत्त्वादुत्तरदक्षिणदिग्भ्यां मध्यवलनान्तरेण क्रांतिवृत्तयाम्योत्तररूपकदंबौ दक्षिणोत्तरत इति पूर्वपश्चिमानुरोधेनैतद्दानं युक्ततरम् । यद्यपि चन्द्रग्रहणे शरस्य विपरीतदिक्त्वात्तच्छरदिग्ग्रहणेन सूर्यचन्द्रयोर्मध्यवलनदानमेकदिक्त्वे पश्चिमचिह्नाभिमुखं भिन्नदिक्त्वे पूर्वाभिमुखमित्यकोक्तिलाघवम् । तथापि सूर्यचन्द्रयोर्ग्रहणभेदादेकोक्तौ मन्दबुद्धीनां भ्रमसम्भवस्तद्वारणार्थ पृथगिवोक्तिः कृता । स्वतन्त्रेच्छस्य नियोगानहत्वाच ॥८॥९॥
माल्टा०-सूर्यग्रहणमेंभी ऐसाही करे कि उन दोनों मत्स्योंके मुखसे व पूंछसे निकली हुई दो रेखाओंको फैलाकर जो चन्द्रविक्षेप यथायोग्य दिशामें होगा। चन्द्रग्रहणके लिये विप रीत दिशामे ग्रहण करना चाहिये । मध्यग्रहणमेंभी विक्षेपका ऐसाही व्यवहार होता है | मध्य चन्द्रग्रहण वलन और विक्षेप एक दिशामें हो तो वलनका पूर्वमुखमें होना और दिशाभेद होनेसे पश्चिममुखमें होना कहा जायगा । विक्षेपके अनुसार उत्तर या दक्षिणमें होगा । परन्तु सूर्यग्रहणमें अदल बदल होजाताहै ॥ ८॥ ९ ॥ अथ मध्यग्रहणं श्लोकाभ्यां परिलेख दर्शयति
वलनापात्पुनः सूत्र मध्यबिन्दुं प्रवेशयेत् ॥ मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् ॥ १० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com