________________
ध्यायः ६. ]
संस्कृतटीका - भाषाटीकासमेतः ।
विक्षेपायालिखेद्वृत्तं ग्राहकार्धेन तेन यत् ॥ ग्राह्यवृत्तं समाकान्तं तद्गस्तं तमसा भवेत् ॥ ११ ॥ वलनाग्रान्मध्यकालिकवलनाग्रात्पूर्वश्लोकोक्तात्सूत्रं रेखां मध्यबिन्दु वृत्तमध्यचिह्न प्रति पुनर्वारान्तरं पूर्वं स्पार्शिक मौक्षिकवलनाग्राभ्यां सूत्ररचना तथैवेत्यर्थः । प्रवेश येत् गणकाः प्रतिष्ठां कुर्यात् । मध्यसूत्रेणानेन मध्यकालिक विक्षेपं मध्यवलनाग्राभिमुखं नयेत् । वृत्तमध्यबिन्दारित्यर्थसिद्धम् । तथाच वृत्तमध्यान्मध्यवलनाग्रसूत्रे विक्षपांगुलानि गणयित्वा तदग्रे विक्षेपाये चिह्नं कुर्यादित्यर्थः । अस्मादिक्षेपायाग्राहकबिम्बमानार्धेन वृत्तं गणको लिखेत् । तेन वृत्तेन यद्यन्मितं ग्राह्यवृत्तं समाकान्तं व्याप्तम् । यद्भाह्यवृत्तविभागरूपं तमसान्धकाररूपेण च्छादकेन ग्रस्तमाच्छादितं स्यात्त न्मितं विभागं मण्यादिना लिप्तं कुर्यादित्यर्थः । अत्रोपपतिः । वृत्ते मध्यसूत्रं कदंबाभिमुखं तत्र ग्राह्यकेन्द्र।च्छरान्तरेण ग्राहककेन्द्रं तस्माद्र/हकार्धेन वृत्तं ग्राहकबिम्बवृत्तं तेन ग्राह्यवृत्तं यावदाक्रान्तं तावन्मध्यकाले ग्रस्तमिति तद्भागस्य कृत्स्रत्वेनाकाशे दर्शनात्तमसा ग्रस्तमित्युक्तम् ॥ १० ॥ ११ ॥
मा० ट ० - वलनायसे मध्यबिन्दुतक सूत्र करे । इस सूत्र में मध्यबिन्दुले वढनाभिमुखमें विक्षेपका चिह्न ( निशान) करे ग्राहक मानाईपरिमित व्यासार्द्धके साथ विक्षेपाय के चारों ओर वृत्तकल्पना करने से जो वृत्त होगा वह वृत्त ग्राह्यवृत्त में जितना व्याप्तहो वहीं अन्वकारावृत है ॥ १० ॥ ११ ॥
( १२७
ननु पूर्व कपाले ग्रहणयोः सम्भवे सर्वमुक्तमुपपन्नम् । पश्चिमकपाले ग्रहणसम्भवे परिलेखाक्तं वैपरीत्येन भवति । तथाहि । यस्यां दिशि परिलेखे स्पर्शो मोक्षो वा परकपाले तस्य पश्चिमाभिमुखत्वेन दर्शने दिग्वैपरीत्यं प्रत्यक्षमित्यत आहछेद्यकं लिखता भूमौ फलके वा विपश्चिता ॥ विपर्ययो दिशां कार्यः पूर्वापरकपालयोः ॥ १२ ॥
भूमौ फलके काष्ठपट्टिकायामित्यर्थः । वा विकल्पे । भूमौ लिखितस्यतस्ततोनयनासम्भवात्फलक इत्युक्तिः । छेद्यकं प्रागुक्तं लिखता गणकेन विपश्चिता, तत्त्वज्ञेन दिशां पूर्वादिदिशां पूर्वापरकपालयोर्विपर्ययोर्व्यत्यासः कार्यः । यथा पूर्वकपाले सव्यक्रमेण पूर्वादिलेखनं तथापरकपाले सव्यक्रमेण पूर्वादिलेखनं न कार्यम् । किन्तु पश्चिमस्थाने पूर्वा पूर्वस्थाने पश्चिमा । उत्तरदक्षिणदिग्भागे क्रमेणोत्तरदक्षिणे लेख्ये इत्यर्थः । तेन पश्चिमकपाले ग्रहणसम्भवेऽपि परिलेखोक्तं सम्भवत्येवेति भावः । अत्रोपपत्तिः । दिग्वैपरीत्यं भवतीति पूर्वमेव वैपरीत्येन दिशालेखने परिलेखा यथा स्थितो भवतीत्यु क्तम् । भास्कराचार्यैस्तु नैतदुक्तम् । परिलेखनामुक्यां दिश्यमुकं भवतीति ज्ञानस्यावश्यकत्वेन तस्य तत्राबाधात् । नहि यथाकाशे तथा दर्शनमपेक्षितम् । भूमौ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com