________________
ષોડશફ પ્રકરણ - ૨ सम्यक्त्वज्ञानचारित्र-योगः सद्योग उच्यते । .. एतद्योगाद्धि योगी स्यात्, परमब्रह्मसाधकः ॥१॥ सैव विशिष्यते निर्वाणफलप्रदा-निर्वाणकार्यप्रसाधनी प्रोक्ता, तद्वेदिभिराचार्यैः ॥१५॥
: योगदीपिका : यतः चिन्तामणिरित्यादि । असौ भगवान् परः प्रकृष्टः चिन्तामणिवर्तते तेनेयं सर्वत्र 'पुरस्क्रियमाणागम-सम्बन्धोद्बोधित-संस्कार-जनित-भगवद्-हृदयस्थता समरसापत्तिः समतापत्तिर्भवति, रसशब्दोऽत्र भावार्थः, । भगवत्स्वरूपोपयुक्तस्य तदुपयोगानन्यवृत्तेः (त्तै. प्र.) परमार्थतस्तद्रूपत्वाद्बाह्यालम्बनाकारोपरक्तत्वेन ध्यानविशेषरूपा तत्फलभूता वा मनसः समापत्तिरभिधीयते । तथोक्तं योगशास्त्रे -
"क्षीणवृत्तेराभिजात्यस्येव मणेाह्य-ग्रहीतृ-ग्रहणेषु तत्स्थ-तदजनता समापत्तिः।" . सा च मयि तद्रूपा स एवाहमित्यादिध्यानोल्लिख्यमान-वैज्ञानिक-सम्बन्धविशेष-रूपा। सैव समापत्तिर्योगिनः सम्यक्त्वादिगुणपुरुषस्य माता जननी निर्वाणफलप्रदा च प्रोक्ता तद्वेदिभिराचार्यैः ॥१५॥ - इति यः कथयति धर्म, विज्ञायौचित्ययोगमनघमतिः । जनयति स एनमतुलं, श्रोतृषु निर्वाणफलदमलम् ॥१६॥
:विवरणम् : .. बालादीनां सद्धर्मदेशनाविधिरधिकृतः, तमेव निगमयन्नाह-इतीत्यादि।
इति यः कथयति धर्मम्-एवमुक्तनीत्या यो गुरुः धर्म कथयति, विज्ञाय-ज्ञात्वा औचित्ययोगं-औचित्यव्यापार तत्सम्बन्धं वा । अनघमतिः- निर्दोषबुद्धिः जनयति स - गुरुः एन-धर्मअतुलम् - अनन्यसदृशं श्रोतृषु-शुश्रूषाप्रवृत्तेषुनिर्वाणफलदं-मोक्षफलप्रदं अलम्-अत्यर्थमिति ॥१६॥ इति आचार्यश्रीमद्यशोभद्रसूरिकृत-षोडशाधिकारविवरणे द्वितीयोऽधिकारः॥
: योगदीपिका : उपसंहरन्नाह-इतीत्यादि।
ક્ષીણવૃત્તિવાળા ચિત્તમાં પણ સામે પરમાત્મા વગેરે વિષય સ્થિર થાય છે અને એની સાથે સમાનતા પ્રાપ્ત થાય છે, તેને સમાપત્તિ કહેવાય; એમ કહ્યું છે. સમાપત્તિ ધ્યાન કરનાર સાધક યોગી બને છે. એ યોગી સમ્યકત્વાદિ ગુણોથી યુક્ત હોય છે. તેથી સમાપત્તિને, યોગી પુરુષને જન્મ આપનારી માતા કહી છે અને આ સમાપત્તિ (માતા) જ જીવને મોક્ષફળ આપે છે એમ યોગના