Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
ષોડશક પ્રકરણ - ૧૨ सम्पन्नायां चास्यां, लिङ्गं व्यावर्णयन्ति समयविदः। धर्मैकनिष्ठतैव हि, शेषत्यागेन विधिपूर्वम् ॥११॥
. : विवरणम् :'दीक्षा सम्पद्यते महापुंस' इत्युक्तं, तत्सम्पत्तौ सर्वविरतस्य यद् भवति तदाहसम्पन्नायामित्यादि।
सम्पन्नायां च-सञ्जातायां चास्या-दीक्षायां लिङ्ग-लक्षणं व्यावर्णयन्ति-कथयन्ति समयविदः- आगमवेदिनः, धर्मैकनिष्ठतैव हि-धर्मतत्परतैव हि शेषत्यागेन-धर्मादन्यः शेषस्तत्त्यागेन तत्परिहारेण विधिपूर्व-शास्त्रोक्तविधानपुरस्सरं यथा भवति एवं शेषत्यागेन धमैकनिष्ठता सेवनीया, नान्यथेति भावः ॥११॥
: योगदीपिका: दीक्षासम्पत्तौ किं स्यादित्याह-सम्पन्नायामित्यादि ।
सम्पन्नायां च सञ्जातायां अस्यां दीक्षायां लिङ्गं-लक्षणं व्यावर्णयन्ति-कथयन्ति समयविदः सिद्धान्तज्ञा एतदिति शेषः, एतत्क्रिया इत्यपि अध्याहार्य, धर्मैकनिष्ठतैव हि धर्ममात्रप्रतिबद्धतैव हि शेषस्यानुपादेयस्य त्यागेन विधिपूर्व-शास्त्रनीत्या ॥११॥
वचनक्षान्तिरिहादौ, धर्मक्षान्त्यादिसाधनं भवति । शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च ॥१२॥ आकिञ्चन्यं मुख्यं, ब्रह्मापि परं सदागमविशुद्धं । सर्वं शुक्लमिदं खलु, नियमात्संवत्सरादूर्ध्वम् ॥१३॥
:विवरणम् : अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामार्याद्वयेन दर्शयति -वचनेत्यादि ।
वचनक्षान्तिः-आगमक्षान्तिः इह-दीक्षायां आदौ-प्रथमं धर्मक्षान्त्यादिसाधनं भवति, आदिशब्दाद् धर्ममार्दवादिग्रहः । धर्मक्षान्त्यादीनां साधनं वचनक्षान्तिर्भवति, તત્પરતા હોય અર્થાતુ ધર્મમાં જ એકમાત્ર તત્પરતા એ દીક્ષા પ્રાપ્તિનું લક્ષણ છે. ૧૧.
હવે આ સર્વવિરતિ દીક્ષામાં ક્ષમા વગેરે કઈ કઈ સાધનાઓ થાય છે, તે બે ગાથા દ્વારા બતાવે છે.
દીક્ષાની શરૂઆતમાં વચનક્ષમાની આરાધના થાય છે. એ ધર્મોત્તર ક્ષમા વગેરે દશ પ્રકારના શ્રમણ ધર્મનું સાધન બને છે. વચનક્ષમાપૂર્વક જ શુદ્ધ અને ક્લેશરહિત બાર પ્રકારના તપની प्राप्ति थाय छे. संयम, सत्य, पाहा - अभ्यंतर शौय, पाहा - अभ्यंतर त्याग३५ सायन्य, શાસ્ત્રોમાં કહ્યા મુજબનું અઢાર ભેદવાળું વિશુદ્ધ બ્રહ્મચર્ય - એમ ક્ષમાદિ દશ પ્રકારનો વિશુદ્ધ નિર્દોષ ધર્મ પ્રાપ્ત થાય છે.

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242