Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
ષોડશક પ્રકરણ - ૧૩ उपकारि-स्वजनेतर-सामान्यगता चतुर्विधा मैत्री। मोहासुख-संवेगान्यहितयुता चैव करुणेति ॥१॥
विवरणम्: 'एताश्चतुर्विधा' इत्युक्तं, तदेव चातुर्विध्यं प्रत्येकमभिधातुमाह-उपकारीत्यादि ।
उपकारी च स्वजनश्चेतरश्च सामान्यं च उपकारि-स्वजनेतर-सामान्यानि। एतद्गताएतद्विषया चतुर्विधा - चतुर्भेदा मैत्री भवति।।
उपकर्तुं शीलमस्येत्युपकारी, उपकारं विवक्षितपुरुषसम्बन्धिनमाश्रित्य या मैत्री लोके प्रसिद्धा सा प्रथमा । स्वकीयो जनो नालप्रतिबद्धादिस्तस्मिन्नुपकारमन्तरेणापि स्वजन इत्येवं या मैत्री तदुद्धरणादिरूपा प्रवर्तते सा द्वितीया । इतर:- प्रतिपन्नः पूर्वपुरुषप्रतिपन्न- सम्बन्धेषु स्वप्रतिपन्न-सम्बन्धेषु वा स्वजनसम्बन्धनिरपेक्षा या मैत्री सा तृतीया। सामान्ये-सामान्यजने सर्वस्मिन्नैव अपरिचिते परिचितेऽपि हितचिन्तनरूपा प्रतिपन्नत्वसम्बन्धनिरपेक्षा चतुर्थी मैत्री।। ___मोहश्चासुखं च संवेगश्चान्यहितं च मोहासुखसंवेगान्यहितानि तैर्युता चैव-समन्विता चैव करुणेति-करुणा भवति। मोह:- अज्ञानं तेन युता ग्लानापथ्यवस्तुमार्गणप्रदानाभिलाषरूपा प्रथमा । असुख-सुखाभावो, यस्मिन् प्राणिनि दुःखिते सुखं नास्ति, तस्मिन् याऽनुकम्पा लोकप्रसिद्धा आहारवस्त्रशयनासनादिप्रदानलक्षणा सा द्वितीया । संवेगो-मोक्षाभिलाषस्तेन सुखितेष्वपि सत्त्वेषु प्रीतिमत्तया सांसारिक-दुःखपरित्राणेच्छा छद्मस्थानां या स्वभावतः प्रवर्तते सा तृतीया। अन्यहितयुता-सामान्येनैव प्रीतिमत्ता-सम्बन्धविकलेष्वपि सर्वेष्वेवान्येषु सत्त्वेषु केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरायणा हितबुद्ध्या चतुर्थी करुणा ॥९॥ [१] भैत्री भावन:
(१) 640भैत्री : पोताना 1564511 डोय तेमनी साथे मित्रतानो संल५, જે લોકપ્રસિદ્ધ છે. (૨) સ્વજનમૈત્રીઃ કોઈ ઉપકાર ન હોય પણ જેમની સાથે લોહીનો સંબંધ હોય એવો સ્વજનનો દુ:ખમાંથી ઉદ્ધાર કરવાની ભાવનારૂપ મૈત્રી. (૩) પરજનમૈત્રીઃ ઉપકારી કે સ્વજન હોય પણ પોતાના પૂર્વજોએ કે પોતે જેને મિત્ર તરીકે સ્વીકારેલ હોય તેમની મૈત્રી. (૪) સામાન્યજન મૈત્રીઃ સર્વસામાન્ય પરિચિત - અપરિચિત જીવોના હિતના વિચારરૂપ મૈત્રી, આમાં ઉપકારી, સ્વજન કે સ્વીકૃત આ ત્રણની કોઈ ઉપેક્ષા હોતી
नथी. [૨] કરુણા ભાવના
(१) भोडश २९५ : बीमारना कुपथ्य पावान दावादायी पाणी ४७,

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242