Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
ષોડશક પ્રક્રણ - ૧૫
(२०५) : योगदीपिका: किं पुनरनालम्बनाद् भवतीत्याह-द्रागित्यादि।
दाक्-शीघं अस्माद्-अनालम्बनयोगात्, दर्शनं-परतत्त्वदर्शनम् इषुपातस्यबाणपतनस्य ज्ञातं-उदाहरणं तन्मात्रतो ज्ञेयम्। एतच्च परतत्त्वदर्शनं केवलं-सम्पूर्ण तत्-प्रसिद्धं ज्ञानं यत्केवलज्ञानं परं-प्रकृष्टं ज्योतिः-प्रकाशरूपम् । इषुपातोदाहरणं चैतद् - यथा केनचिद् धनुर्धरेण लक्ष्याभिमुख्येन तदविसंवादितया च बाणो व्यापारितो यावत्तस्य बाणस्य न विमोचनं तावत् तत्प्रगुणतामात्रेण तदविसंवादित्वेन च समोऽनालम्बनयोगः । यदा तु तस्य बाणस्य मोचनं लक्ष्याऽविसंवादि-पतनमात्रादेव स तदा लक्ष्यवेधः, एवं यदाऽनालाम्बनध्यानमोचनं ध्यानान्तरिकाख्यं तदैव परतत्त्ववेधकल्पः केवलप्रकाश इति ॥१०॥
आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं, ध्रुवं चेति समयज्ञाः ॥११॥
विवरणम् : कीदृशं पुनस्तत्केवलज्ञानमित्याह - आत्मस्थमित्यादि ।
आत्मनि तिष्ठति - आत्मस्थं-जीवस्थं सत् त्रैलोक्यस्य-त्रिलोकीव्यवस्थितस्य ज्ञेयस्य जीवाजीवरूपस्य प्रकाशकं-अवबोधकमात्मनः परेषां च पदार्थानां स्वरूपज्ञापकं वा, निष्क्रियं-गमनादिक्रियारहितं, पर आनन्दोऽस्मिन्निति परानन्दं, पाठान्तरं वा परानन्द्यंपरैरानन्द्यं-अभिनन्दनीयं तत्प्राप्यर्थिभिः श्लाघनीयं रोचनीयमितियावत्, तीतादिपरिच्छेदकम्-अतीतशब्दस्यार्थे तीतशब्दो वर्त्तते, सिद्धिविनिश्चयादिग्रन्थेषु दर्शनाद्, ईतादिपरिच्छेदकं वा, ईतं- गतमतिक्रान्तं ततः ईतादीनाम्-अतीत-वर्तमानानागतानां कालत्रयविषयाणां पदार्थानां परिच्छेदकं-परिच्छेतृ-ज्ञातृस्वभावं अलं-समर्थं ध्रुवं चेतिशाश्वतं चेति समयज्ञाः-आगमज्ञाः इत्थमभिदधति ।
कथं पुनरतीतादिपरिच्छेदकत्वं केवलज्ञानस्य? यावताऽतीतानागतयोविचार्यमाणयोકેવળજ્ઞાનનું સ્વરૂપ:
(૧) આત્મામાં રહેલું (૨) આત્મામાં રહીને જ ત્રણ લોકના સમસ્ત જીવાજીવાદિ સર્વ શેય પદાર્થોના સ્વરૂપનું પ્રકાશક અથવા પોતાના અને પારકાના પદાર્થોનું પ્રકાશક (૩) નિષ્ક્રિય એટલે ગમનાગમનાદિ ક્રિયા રહિત (૪) પરમ આનંદવાળું,પરાનંદ્ય પાઠના આધારે અન્યોદ્વારા અભિનંદનીય, પ્રશંસનીય, પ્રાર્થનીય (૫) અતીત, અનાગત અને વર્તમાનકાળ- એમ ત્રણે કાળની સર્વવસ્તુનું યથાર્થ બોધક (૬) સમર્થ (૭) શાશ્વતકાળ રહેનારું, શાસ્ત્રકાર ભગવંતો કેવળજ્ઞાનને આવા સુંદર સ્વરૂપવાળું બતાવે છે.

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242