Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala
View full book text
________________
२००
ષોડશક પ્રકરણ - ૧૫ . सिद्धिक्षेत्रविभागस्तस्मिस्तिष्ठतीति त्रैलोक्य-मस्तकस्थं, निवृत्ता जन्मादयः सङ्क्लेशा यस्मात्तन्निवृत्तजन्मादिसङ्क्लेशम् ॥१३॥ ____ ज्योतिरित्यादि । ज्योतिः-प्रकाशस्वभावं परं-प्रधानं परस्तात्तमसोद्रव्यभावरूपादन्धकारात् यद्गीयते-यत्संशब्दयते महामुनिभिः ज्ञानसम्पन्नैः आदित्यवर्णममलं-निदर्शनमात्राङ्गीकरणेन भास्वररूपं, न पुनः परमार्थतस्तस्य पुद्गलात्मकः परिणामोऽस्ति । ब्रह्माद्यैरितिविशेष्यपदं (विशेषणपदं) महामुनिभिरित्यनेनाभिसम्बध्यते, न क्षरतीति अक्षरं-स्वभावात्कदाचिन्न प्रच्यवत इतिकृत्वाऽक्षरं परं तत्त्वं, तथा ब्रह्म-महद्,
"बृहत्त्वाद् बृंहकत्वाच्च, ब्रह्मेति परिकीर्तितम्" इत्यभिधानाद, अथवाऽक्षरं ब्रह्म तत् परं तत्त्वम् ।।१४॥
नित्यमित्यादि। नित्यं-ध्रुवंप्रकृतिवियुक्तं स्व-तन्त्रपरिभाषया सकलज्ञानावरणीयादिमूलोत्तरभेद - प्रकृतिवियुक्तं, परतन्त्र-परिभाषया - "सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः" इत्यनया वियुक्तं, सांसारिकसर्वप्रकारैर्वा, लोकालोकयो:- समयप्रसिद्धयोरवलोकने आभोग-उपयोगोऽस्येति लोकालोकावलोकनाभोगं, स्तिमित-तरङ्गश्चासावुदधिश्च तेन समं निस्तरङ्ग-महोदधि-कल्पं, न विद्यते वर्णः - पञ्चविधः सितादिरस्येति-अवर्णं, न विद्यते स्पर्शोऽष्टप्रकारो मृदु-कर्कशादिरस्येति अस्पर्श, न विद्यते गुरुलघूनि यस्मिस्तत्तथाऽगुरुलघुपरिणामोपेतम् ॥१५॥
सर्वेत्यादि । सर्वाबाधारहितं-शारीर-मानसाबाधा-वियुक्तं । परम आनन्दो यस्मिन् सुखे तेन सङ्गतं-युक्तम्, अनेन पर-परिकल्पित-निःसुख-दुःख-मोक्ष-व्यवच्छेदमाह, न विद्यते सङ्गो यस्मिन्निति असङ्गम् - असङ्गता - युक्तं, तल्लक्षणं चेदम् -
भये च हर्षे च मतेरविक्रिया, सुखेऽपि दुःखेऽपि च निर्विकारता । (२) अयिन्त्यहि गुना समुदायवाj. (૩) કેવળજ્ઞાન વિના દેખાય એવું ન હોવાથી સૂક્ષ્મ સ્વરૂપવાળું. (૪) ત્રણ લોકના મસ્તક સ્થાને રહેલું હોવાથી સર્વોપરિ. (५) मा संशति . (६) श्रेष्ठ योति स्व३५. (७) द्रव्य - भाव २थी ५२. (2) સૂર્ય જેવા નિર્મલ ગુણવાળું - આ દષ્ટાંત માત્ર છે, બાકી સૂર્યના પૌદ્ગલિક
ભાસ્વરરૂપ જેવું સિદ્ધોનું સ્વરૂપ પૌદ્ગલિક નથી. (८) राग-द्वेषाहि मे २हित - अमल..

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242