Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 241
________________ ષોડશક પ્રકરણ - ૧૦ अथवा वचनमागमरूपं ननु-निश्चितं हारि मनोहारि भद्रमिदं, यतो वर्त्तते अतो वचनगतधर्मश्रवणे बहुश्रुतसमीपे एव यत्नः श्रेयान्, अबहुश्रुतेभ्यो धर्मश्रवणेऽपि विपरीतार्थोपपत्तेः प्रत्यवाय-सम्भवाद् । __ अथवा हरिभद्रसूरेः स्तुति कुर्वाणोऽपर एव कश्चिदिदमाह-वचनं ननु हारिभद्रमिदं हरिभद्रसूरेरिदं धर्मगतं वचनं-प्रकरणाश्रयं, तस्माद्धर्मश्रवणे बहुश्रुतसमीपे एव यत्नो विधेयः, अबहुश्रुतेभ्यो हरिभद्राचार्यवचनानुपलम्भाद्, एवं वचनमाहात्म्यद्वारेण संस्तौति ॥१७॥ कृत्वा विवरणमेतत्पुण्यं यदवापि तेन भव्यजनः । अध्यास्तां षोडशकल शशिमण्डलभास्वरं स्थानम् ॥१॥ इत्याचार्यश्रीमद्यशोभद्रसूरिकृत-षोडशाधिकारविवरणे षोडशोऽधिकारः समाप्तं चेदं षोडशाधिकारविवरणम् ॥ : योगदीपिका : अथ ग्रन्थकृद्गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदिशन्नाह-धर्मेत्यादि । धर्मस्य-श्रुत-चारित्ररूपस्य श्रवणे यत्न आदरः सततं-अनवरतं कार्योबहुश्रुतसमीपे हितकाक्षिभि- हितार्थिभिः-नृसिंहैः-पुरुषोत्तमैः वचनं प्रार्थनारूपं, नन्विति वितर्के, हारिभद्रं हरिभद्रसम्बन्धीदम्। __यद्वा ननु-निश्चितं हारि मनोज्ञं भद्रमिदं वचो यद् ‘बहुश्रुतेभ्य एव धर्मः श्रोतव्य' इति, अबहुश्रुतेभ्यो धर्मश्रवणे प्रत्यवाय-सम्भवात् । शिष्यकर्तृका इयमार्येत्यन्ये ॥१७॥ इति महोपाध्यायश्रीकल्याणविजयगणि शिष्यमुख्यपण्डितश्रीलाभविजयगणि शिष्यपण्डितश्रीजीतविजयगणि सतीर्थ्यपण्डितश्रीनयविजयगणिचरण-कमलचञ्चरीक-पण्डित-श्रीपद्म-विजय-गणि-सहोदरोपाध्यायश्रीयशोविजय-गणिप्रणीता 'योगदीपिका'-नाम्नी षोडशकवृत्तिः सम्पूर्णा ॥ एषा षोडशकव्याख्या सङ्क्षिप्तार्थावगाहिनी । सिद्धाऽक्षयतृतीयायां भूयादक्षयसिद्धये ॥१॥ ॥इति षोडशाधिकारप्रकरणम् ॥ ષોડશક ગ્રંથનું વિવેચન લખી મારા વડે જે પુણ્ય પ્રાપ્ત કરાયું હોય તેનાથી ભવ્યજીવો સોળે કળાથી ખીલેલા ચન્દ્ર મંડળ જેવા તેજસ્વી સ્થાન - મોક્ષને પ્રાપ્ત કરે ! ૧૬-૧૭ सोग षोडश समाप्त....

Loading...

Page Navigation
1 ... 239 240 241 242