Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 238
________________ ષોડશક પ્રકરણ - ૧૬ तत्रापि-तदेकदेशभूतागमान्तरेऽपि न द्वेषः कार्यः, तु-पुनविषयो यत्नतो मृग्यस्तदर्थानुपपत्तिपरिहारो यत्नतः कर्त्तव्यः, गुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात्। ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या न तु सर्वथानुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यत आह-तस्यापि-आगमान्तरस्य सद्वचनं-शोभनं वचनं सर्वयद्-यस्मात्प्रवचनान्-मूलागमाद् अन्यद् न, किन्तु तदनुपात्येव । तथा च तस्य मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कर्तव्या । इत्थमेव सम्यग्-दृष्टिपरिगृहीतस्य मिथ्याश्रुतस्यापि सम्यक्श्रुतत्व-सिद्धेः तदरुचिस्तु तत्त्वतो दृष्टिवादारुचिपर्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१३॥ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः, प्रवृत्तिष्टाङ्गिकी तत्त्वे ॥१४॥ विवरणम् : कस्मात्पुनस्तत्राद्वेषः क्रियत इत्याह-अद्वेष इत्यादि । अद्वेष:- अप्रीतिपरिहारस्तत्त्वविषयः, तत्पूर्विका ज्ञातुमिच्छा। जिज्ञासा-तत्त्वविषया ज्ञानेच्छा तत्त्वजिज्ञासा, सा पूर्विका बोधाम्भ:- श्रोतस: सिराकल्पा श्रोतुमिच्छा शुश्रूषा तत्त्वविषयैव, तत्त्वशुश्रूषानिबन्धनं श्रवणं-आकर्णनं तत्त्वविषयमेव । बोध:-अवगमः परिच्छेदो विवक्षितार्थस्य श्रवणनिबन्धनस्तत्त्वविषय एव। मीमांसा सद्विचाररूपा बोधानन्तरभाविनी तत्त्वविषयैव । श्रवणं च बोधश्च मीमांसा च श्रवणबोधमीमांसाः। परिशुद्धासर्वतो भावविशुद्धा प्रतिपत्तिः-मीमांसोत्तरकालभाविनी निश्चयाकारपरिच्छित्तिः 'इदमित्थमेव' इति तत्त्व-विषयैव । प्रवर्तनं प्रवृत्तिः- अनुष्ठानरूपा परिशुद्ध-प्रतिपत्त्यन्तरभाविनी तत्त्वविषयैव। प्रवृत्तिशब्दो द्विरावर्त्यते, तेनायमर्थो भवति, तत्त्वे प्रवृत्तिरष्टाभिरङ्गैनिर्वत्ताअष्टाङ्गिकी, एभिरद्धेषादिभिरष्टाभिरङ्गैस्तत्त्व-प्रवृत्तिः सम्पद्यते, तेनागमान्तरे मूलागमैकदेशभूते न द्वेषः कार्य इति ॥१४॥ રીતે વિચાર કરી, પુણ્યના કારણભૂત સદનુષ્ઠાનમાં પ્રવૃત્તિ કરવી જોઈએ. કારણ કે- સત્પુરુષોનો એ જ ન્યાયમાર્ગ છે, સદાનો શાશ્વતમાર્ગ છે. પ્રશ્ન : આ ગ્રંથમાં કહેલા ભાવો કોના આધારે અને શા માટે કહ્યા છે? ઉત્તર : આ ગ્રંથમાં કહેલા પ્રસ્તુત સઘળા ભાવો, દ્વાદશાંગીરૂપ પ્રવચનના આધારે કહ્યા છે. અર્થાત્ દ્વાદશાંગીમાંથી ઉદ્ધત કરી, મંદબુદ્ધિ આત્માઓના હિતને માટે આ ગ્રંથરૂપે જુદા જુદા ગોઠવ્યા છે. મારા પોતાના આત્માને એનું સ્મરણ, ચિંતન થાય એ માટે પણ ઉદ્ધત કર્યા છે. આ સર્વભાવો ભવવિરહ એટલે મોક્ષપ્રાપ્તિના ફળવાળા છે. એટલે કે – આ ભાવોનું ફળ मोक्षप्राति छ. १५.

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242