SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ - ૧૩ उपकारि-स्वजनेतर-सामान्यगता चतुर्विधा मैत्री। मोहासुख-संवेगान्यहितयुता चैव करुणेति ॥१॥ विवरणम्: 'एताश्चतुर्विधा' इत्युक्तं, तदेव चातुर्विध्यं प्रत्येकमभिधातुमाह-उपकारीत्यादि । उपकारी च स्वजनश्चेतरश्च सामान्यं च उपकारि-स्वजनेतर-सामान्यानि। एतद्गताएतद्विषया चतुर्विधा - चतुर्भेदा मैत्री भवति।। उपकर्तुं शीलमस्येत्युपकारी, उपकारं विवक्षितपुरुषसम्बन्धिनमाश्रित्य या मैत्री लोके प्रसिद्धा सा प्रथमा । स्वकीयो जनो नालप्रतिबद्धादिस्तस्मिन्नुपकारमन्तरेणापि स्वजन इत्येवं या मैत्री तदुद्धरणादिरूपा प्रवर्तते सा द्वितीया । इतर:- प्रतिपन्नः पूर्वपुरुषप्रतिपन्न- सम्बन्धेषु स्वप्रतिपन्न-सम्बन्धेषु वा स्वजनसम्बन्धनिरपेक्षा या मैत्री सा तृतीया। सामान्ये-सामान्यजने सर्वस्मिन्नैव अपरिचिते परिचितेऽपि हितचिन्तनरूपा प्रतिपन्नत्वसम्बन्धनिरपेक्षा चतुर्थी मैत्री।। ___मोहश्चासुखं च संवेगश्चान्यहितं च मोहासुखसंवेगान्यहितानि तैर्युता चैव-समन्विता चैव करुणेति-करुणा भवति। मोह:- अज्ञानं तेन युता ग्लानापथ्यवस्तुमार्गणप्रदानाभिलाषरूपा प्रथमा । असुख-सुखाभावो, यस्मिन् प्राणिनि दुःखिते सुखं नास्ति, तस्मिन् याऽनुकम्पा लोकप्रसिद्धा आहारवस्त्रशयनासनादिप्रदानलक्षणा सा द्वितीया । संवेगो-मोक्षाभिलाषस्तेन सुखितेष्वपि सत्त्वेषु प्रीतिमत्तया सांसारिक-दुःखपरित्राणेच्छा छद्मस्थानां या स्वभावतः प्रवर्तते सा तृतीया। अन्यहितयुता-सामान्येनैव प्रीतिमत्ता-सम्बन्धविकलेष्वपि सर्वेष्वेवान्येषु सत्त्वेषु केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरायणा हितबुद्ध्या चतुर्थी करुणा ॥९॥ [१] भैत्री भावन: (१) 640भैत्री : पोताना 1564511 डोय तेमनी साथे मित्रतानो संल५, જે લોકપ્રસિદ્ધ છે. (૨) સ્વજનમૈત્રીઃ કોઈ ઉપકાર ન હોય પણ જેમની સાથે લોહીનો સંબંધ હોય એવો સ્વજનનો દુ:ખમાંથી ઉદ્ધાર કરવાની ભાવનારૂપ મૈત્રી. (૩) પરજનમૈત્રીઃ ઉપકારી કે સ્વજન હોય પણ પોતાના પૂર્વજોએ કે પોતે જેને મિત્ર તરીકે સ્વીકારેલ હોય તેમની મૈત્રી. (૪) સામાન્યજન મૈત્રીઃ સર્વસામાન્ય પરિચિત - અપરિચિત જીવોના હિતના વિચારરૂપ મૈત્રી, આમાં ઉપકારી, સ્વજન કે સ્વીકૃત આ ત્રણની કોઈ ઉપેક્ષા હોતી नथी. [૨] કરુણા ભાવના (१) भोडश २९५ : बीमारना कुपथ्य पावान दावादायी पाणी ४७,
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy