Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 197
________________ ॥अथ चतुर्दशः सालम्बनयोगाधिकारः ॥ . सालम्बनो निरालम्बनश्च, योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥१॥ :विवरणम् : 'आमूलमिदं योगमार्गस्य' इत्युक्तं, तत्र कतिविधो योग इत्याह - सालम्बन इत्यादि। सह आलम्बनेन-चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनो, निरालम्बन-श्वालम्बनाद् विषयभाव-प्रतिपत्तिरूपाद् निष्क्रान्तो निरालम्बनो, यो हि छद्मस्थेन ध्यायते, न च स्वरूपेण दृश्यते, तद्विषयो निरालम्बन इति यावद्, योगो-ध्यान-विशेषः पर:-प्रधानो द्विधा ज्ञेयो-द्विविधो वेदितव्यः । जिनरूपस्य-समवसरणस्थितस्य ध्यानंचिन्तनं, खलुशब्दो वाक्यालङ्कारे आद्यः-प्रथमः सालम्बनो योगः, तस्यैव-जिनस्य तत्त्वंकेवल-जीव-प्रदेश-सङ्घातरूपं केवल-ज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, तुरेवकारार्थः, अपरोऽनालम्बनः मुक्त-परमात्म-स्वरूप-ध्यानमित्यर्थः ॥१॥ : योगदीपिका : आमूलमिदं योगमार्गस्येत्युक्तं तत्र कतिविधो योग इत्याह-सालम्बन इत्यादि । सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तते इति सालम्बनो, निरालम्बनश्च आलम्बनाद्विषयभावापत्ति-रूपान्निष्क्रान्तो, यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते, योगो-ध्यानविशेषः परः- प्रधानो द्विधा ज्ञेयः, जिनरूपस्य-समवसरणस्थस्य ध्यानंचिन्तनं, खलुशब्दो वाक्यालङ्कारे, आद्य:- प्रथमो योगः-सालम्बनः तस्यैव-जिनस्य तत्त्वंकेवल-जीवप्रदेशसंघातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, तुरेवकारार्थे अपरो द्वितीयः, शुद्धपरमात्म-गुणध्यानं निरालम्बनमित्यर्थः ॥१॥ ૧૪ – સાલબનયોગાધકાર પોશાક આ ષોડશકમાં યોગના પ્રકારો, યોગ-ધ્યાનમાં પ્રતિકૂળ ચિત્તના આઠદોષો, અનુકૂળ ચિત્તના આઠ ગુણોનું વિશદ વિવરણ આપવામાં આવ્યું છે. પ્રશ્નઃ સિદ્ધાંતકથાદિ ગુરુવિનયનું મૂળ છે, તેમ સમગ્ર યોગમાર્ગનું મૂળ છે. એમ કહ્યું; તો એ યોગના કેટલા પ્રકાર છે ? उत्तर : योगनाले प्रकार छ (१) सादंबन योगासने (२) निराजन योग. શ્રી જિનેશ્વરપરમાત્માના સ્વરૂપનું ધ્યાન એ સાલંબન યોગ અને સિદ્ધપરમાત્માના સ્વરૂપનું ધ્યાન એ નિરાલંબન યોગ. આંખ વગેરે ઈન્દ્રિયો દ્વારા પ્રભુ પ્રતિમાનું તથા સમવસરણમાં બિરાજમાન પરમાત્માનું આલંબન લઈ ધ્યાન ચિંતન કરવું તે સાલંબન ધ્યાનયોગ છે.

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242