________________
॥अथ चतुर्दशः सालम्बनयोगाधिकारः ॥ . सालम्बनो निरालम्बनश्च, योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाद्यस्तत्तत्त्वगस्त्वपरः ॥१॥
:विवरणम् : 'आमूलमिदं योगमार्गस्य' इत्युक्तं, तत्र कतिविधो योग इत्याह - सालम्बन इत्यादि।
सह आलम्बनेन-चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनो, निरालम्बन-श्वालम्बनाद् विषयभाव-प्रतिपत्तिरूपाद् निष्क्रान्तो निरालम्बनो, यो हि छद्मस्थेन ध्यायते, न च स्वरूपेण दृश्यते, तद्विषयो निरालम्बन इति यावद्, योगो-ध्यान-विशेषः पर:-प्रधानो द्विधा ज्ञेयो-द्विविधो वेदितव्यः । जिनरूपस्य-समवसरणस्थितस्य ध्यानंचिन्तनं, खलुशब्दो वाक्यालङ्कारे आद्यः-प्रथमः सालम्बनो योगः, तस्यैव-जिनस्य तत्त्वंकेवल-जीव-प्रदेश-सङ्घातरूपं केवल-ज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, तुरेवकारार्थः, अपरोऽनालम्बनः मुक्त-परमात्म-स्वरूप-ध्यानमित्यर्थः ॥१॥
: योगदीपिका : आमूलमिदं योगमार्गस्येत्युक्तं तत्र कतिविधो योग इत्याह-सालम्बन इत्यादि ।
सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तते इति सालम्बनो, निरालम्बनश्च आलम्बनाद्विषयभावापत्ति-रूपान्निष्क्रान्तो, यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते, योगो-ध्यानविशेषः परः- प्रधानो द्विधा ज्ञेयः, जिनरूपस्य-समवसरणस्थस्य ध्यानंचिन्तनं, खलुशब्दो वाक्यालङ्कारे, आद्य:- प्रथमो योगः-सालम्बनः तस्यैव-जिनस्य तत्त्वंकेवल-जीवप्रदेशसंघातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, तुरेवकारार्थे अपरो द्वितीयः, शुद्धपरमात्म-गुणध्यानं निरालम्बनमित्यर्थः ॥१॥
૧૪ – સાલબનયોગાધકાર પોશાક આ ષોડશકમાં યોગના પ્રકારો, યોગ-ધ્યાનમાં પ્રતિકૂળ ચિત્તના આઠદોષો, અનુકૂળ ચિત્તના આઠ ગુણોનું વિશદ વિવરણ આપવામાં આવ્યું છે.
પ્રશ્નઃ સિદ્ધાંતકથાદિ ગુરુવિનયનું મૂળ છે, તેમ સમગ્ર યોગમાર્ગનું મૂળ છે. એમ કહ્યું; તો એ યોગના કેટલા પ્રકાર છે ?
उत्तर : योगनाले प्रकार छ (१) सादंबन योगासने (२) निराजन योग.
શ્રી જિનેશ્વરપરમાત્માના સ્વરૂપનું ધ્યાન એ સાલંબન યોગ અને સિદ્ધપરમાત્માના સ્વરૂપનું ધ્યાન એ નિરાલંબન યોગ. આંખ વગેરે ઈન્દ્રિયો દ્વારા પ્રભુ પ્રતિમાનું તથા સમવસરણમાં બિરાજમાન પરમાત્માનું આલંબન લઈ ધ્યાન ચિંતન કરવું તે સાલંબન ધ્યાનયોગ છે.