Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 203
________________ (૧૯) ષોડશક પ્રક્રણ - ૧૪ अन्यमुदि तत्र रागात्, तदनादरताऽर्थतो महापाया। सर्वानर्थनिमित्तं, मुद्विषयाङ्गारवृष्ट्याभा ॥९॥ :विवरणम् : अन्येत्यादि । अनुष्ठीयमानादन्यत्र मुत्-प्रमोदस्तस्यां सत्यां चित्तदोषरूपायां तत्रअन्यस्मिन् रागाद्-अभिलाषातिरेकात् तदनादरता-अनुष्ठीयमानाऽनादरभावो अर्थतःसामर्थ्यात् महापाया-महानपायो यस्याः सकाशात्सा तथा, सर्वानर्थनिमित्तं-सर्वेषामनर्थानां हेतुः, तदनादरताऽभिसम्बध्यते। मुद्विषयाङ्गारवृष्ट्याभा-मुदो-हर्षस्य विषयो यस्तस्मिन्नङ्गारवृष्ट्याभा-अङ्गार-वृष्टिप्रतिच्छायाऽङ्गारवृष्टिसदृशी, प्रमोदविषयार्थोपघातकारिणीत्यर्थः । इयं चान्यमुत् सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुतानुरागाच्चैत्यवन्दनाद्यनाद्रियमाणस्य तत्करणवेलायामपि तदुपयोगाभावेनेतरत्राऽऽसक्तचित्तवृत्तेः सदोषा, न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषः समस्ति यदुत एकमादरविषयोऽन्यदनादरविषय इति ॥९॥ योगदीपिका : ___ अन्यमुदीत्यादि । अनुष्ठीयमानादन्यत्र मुत्-प्रमोदस्तस्यां सत्यां तत्रान्यस्मिन् रागादभिलाषातिरेकात्-तदनादरताऽनुष्ठीयमानानाद्रियमाणता अर्थतः-सामर्थ्यात्, तत्क्रियाकालेऽन्यरागस्य तदरागाक्षेपकत्वात्, सा च तदनादरता महापाय-महाधर्मविघ्नवती, तथा सर्वेषामनर्थानां निमित्तं, लेशतोऽपि विहितानुष्ठानानादरस्य दुरन्तसंसारहेतुत्वात् । तदनादरदोषेऽप्यनादरगुणात्तुल्यायव्ययत्वमित्याशङ्कायामाह-मुद्विषये इतरानुष्ठाने-ऽङ्गारवृष्ट्याभाअङ्गारवृष्टिसदृशी, अकालरागस्य तत्फलोपघातकत्वादिति भावः । इयं चान्यमुत् सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दन-स्वाध्यायादिषु श्रुतानुरागाच्चैत्यवन्दनादि-करणवेलायामपि આ રીતે જીવનમાં શુદ્ધ ચારિત્રની અપેક્ષાનો ગુણ હોવા છતાં કર્મવશ કે સંયોગવશ દોષો પણ લાગે છે. આમ ગુણદોષ બંને હોય છે અથવા સર્વથા ચારિત્ર ન પાળી શકવાને લીધે દંભ ટાળવા શાસ્ત્રવિધિ મુજબ સાધુપણું છોડી શ્રાવકના આચાર પાળે છે. ચારિત્રપાલન વખતે ચિત્ત અસ્વસ્થ બનવું એ ઉત્થાનદોષ છે. ૭ (५) ila : sila मेटले विपर्यस्तयित्त. तुम छीपमा यहीनो श्रम थाय छ तेम, ભ્રાંતિદોષના કારણે અમુક ક્રિયા કરી કે ન કરી... અમુક સૂત્ર બોલ્યા કે ન બોલ્યા “કરેમિ ભંતે' उथ्ययुं 3 1 Gथ्यर्यु - भेनो यो शो ध्यास न २३... शुं शुं अ\... शुं शुं न उथु करेन। ચોક્કસ સંસ્કારના અભાવે ક્રિયા દ્વારા ઈષ્ટફળની સિદ્ધિ થઈ શકતી નથી. કર્યું કે ન કર્યું વગેરેના સંકલન વગરની ક્રિયા, યોગ વિરોધી હોવાથી ઈષ્ટફળ આપી શકતી નથી. ૮.

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242