________________
घोSAS US२५ - 3
। योगदीपिका : ..विनियोगं लक्षयति-सिद्धेश्चेत्यादि। सिद्धेश्चोत्तरकालभाविकार्यं विनियोगो नामाशयभेदो विज्ञेयः । एतद्विनियोगाख्यं सिध्द्युत्तरकार्यम् अवन्ध्यं न कदाचिनिष्फलमेतस्मिन् सतिसञ्जाते अन्वयसम्पत्त्या भङ्गेऽपि सुवर्णघटन्यायेन सर्वथा फलानपगमाद्, विनियोजितधर्मापगमेऽपि भूयो-झटिति तत्संकारोबोध-सम्भवादनेकजन्मान्तरसन्तानक्रमेणाविच्छेदसम्पत्त्या हेतुभूतया । इतिहेतोः तत्सिध्द्युत्तरकार्यं परंशैलेशीलक्षणं सर्वोत्कृष्टधर्मस्थानं यावत्सुन्दरं परोपकारगर्भक्रियाशक्त्या तीर्थकरविभूतिपर्यन्तसुन्दरविपाकार्थकम् । अयं विनियोगफलोपदेशः, लक्षणं तु स्वात्मतुल्यपरफलकर्तृत्वमित्यवसेयम् ॥११॥
आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः। भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥१२॥
:विवरणम् : एवमेतान् प्रणिधानादीनभिधाय कथञ्चित्क्रियारूपत्वप्राप्तावेषामाशयविशेषत्वसमर्थनायाह-आशयेत्यादि। . आशयभेदा-आशयप्रकारा एते-पूर्वोक्ताः सर्वेऽपि हि-सर्व एव कथञ्चित्क्रियारूपत्वेऽपि तदुपलक्ष्यतया तत्त्वतः-परमार्थेन अवगन्तव्या-विज्ञेयाः परिणामविशेषा एत इति । 'शुभाशयः पञ्चधाऽत्र विधा'वित्युक्तं, स किं भावादपरोऽथ भाव एवेत्याशङ्कायामिदमाह- भावोऽयमिति । अयं-पञ्चप्रकारोऽप्याशयो भाव इत्यभिधीयते, अनेन-भावेन विना चेष्टा-व्यापाररूपा कायवाङ्मनःसङ्गता द्रव्यक्रिया तुच्छा-भावविकला क्रिया द्रव्यक्रिया तुच्छा-असारा स्वफलासाधकत्वेन ॥१२॥
: योगदीपिका : एवमेतान् प्रणिधानादीनुक्त्वा एषां भावत्वसमर्थनायाह-आशयेत्यादि ।
હાજરી રહે તો વિના વિલંબે દીર્ઘકાળ પસાર થયા વગર આ જન્મમાં કે અન્ય જન્મમાં ઉત્કૃષ્ટ ओटिनी शुद्धि प्रा. थाय छे. १२.
આ પાંચ આશયરૂપ ભાવ જ ધર્મતત્ત્વ છે. પરમયોગ પણ એ જ છે અને આ ભાવ જ ભવ્ય આત્માઓના મોક્ષની અભિલાષાનો-પ્રીતિવિશેષનો સૂચક છે. સારાંશ એ છે કે – ભાવ એ જ ધર્મતત્ત્વ છે, ભાવ એ જ પરમયોગ છે અને ભાવ એ જ વિમુક્તિરસ છે. ' - પાપના ક્ષયથી રાગ-દ્વેષના મેલની શુદ્ધિ થાય છે અને પાંચ આશયરૂપ ભાવથી શુદ્ધિનો मर्ष - ५२॥18प्रात थाय छे. १३.