________________
(१२)
ષોડશક પ્રકરણ - ૯ शुभभावार्थं पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूत-गुणोत्कीर्तन-संवेगात् समरसापत्त्या ॥८॥
: विवरणम् : कथं पुनः स्तोत्रेभ्यः पूजा भवतीत्याह - शुभेत्यादि ।
शुभभावार्थं पूजा-शुभभावनिमित्तं पूजा सर्वापि पुष्पादिभिः, स्तोत्रेभ्यः-स्तुतिभ्यः स च-भावः परः प्रकृष्टः शुभो भवति-शुभहेतुर्जायते, एवं च पुष्प-वस्त्रादीनामिव स्तोत्राणामपि प्राक्तनाध्यवसायापेक्षया शुभतरपरिणामनिबन्धनत्वेन पूजाहेतुत्वं सिद्ध्यति।
कथं पुनः स्तोत्रेभ्यः शुभो भाव? इत्याह-'सद्भूतगुणोत्कीर्तनसंवेगात्' सद्भूतानांविद्यमानानां तथ्यानां च गुणानां-ज्ञानादीनां यत्कीर्तनं तेन संवेगो-मुक्त्यभिलाषस्तस्मात्, 'समरसापत्त्या' समभावे रस:-अभिलाषो यस्यां सा समरसा सा चासावापत्तिश्चप्राप्तिरधिगतिरधिगम इत्यनान्तरं, तया हेतुभूतया समरसापत्त्या-परमात्म-स्वरूप-गुणज्ञानोपयोग-रूपया, परमार्थतस्तद्भवनेन तदुपयोगानन्यवृत्तितया, स्तोत्रेभ्य एव शुभो भावो भवतीति तात्पर्यम् ॥८॥
: योगदीपिका : कथं पुनः स्तोत्रेभ्यः पूजा स्यादित्याह- शुभेत्यादि ।
शुभभावार्थं पूजा सर्वापि पुष्पादिभिरिष्यते, स च भावः स्तोत्रेभ्यः परः प्रकृष्टः शुभो भवति सद्भूतानां-विद्यमानानां गुणानां-ज्ञानादीनां यत्कीर्तनं तेन संवेगो मोक्षाभिलाषस्ततः समे भावे रमोऽभिलाषो यस्यां तादृश्याऽऽपत्त्या प्राप्त्या, हेतुभूतया परमात्मगुणोपयोगेन परमार्थतस्तदनन्यवृत्तिलक्षणया । ततश्च पुष्पादितः शुभतर-परिणामनिबन्धनत्त्वेन स्तोत्राणां विशिष्टपूजाहेतुत्त्वं सिद्धं भवति ॥८॥
कायादि-योग-सारा त्रिविधा तच्छुद्ध्युपात्त-वित्तेन।
या तदतिचार-रहिता सा परमाऽन्ये तु समयविदः ॥९॥ આ સ્તોત્રભક્તિ સ્તોત્રપૂજારૂપ છે. પુષ્પ, નૈવેદ્ય, વસ્ત્ર આદિ સામગ્રીથી કરાતી પૂજા જેમ શુભભાવ ઉત્પન્ન કરે છે, એ જ રીતે સ્તોત્રભક્તિ પણ ઉત્કૃષ્ટકોટિનો શુભભાવ ઉત્પન્ન કરે છે. તેથી તે સ્તોત્રપૂજા કહેવાય છે. સ્તોત્રના માધ્યમથી વીતરાગપરમાત્માના જ્ઞાનાદિ સભૂતઉત્તમોત્તમ ગુણોનું કીર્તન થાય છે. એ કીર્તનથી મોક્ષનો અભિલાષ (સંવેગ) પ્રગટે છે. એનાથી સમરસાપત્તિ-પરમાત્માના સ્વરૂપ સાથે એકાકારતા-તન્મયતા પ્રાપ્ત થાય છે. આ રીતે સ્તોત્રભક્તિ પણ શુભભાવને જગાડનારી હોવાથી એક વિશિષ્ટ પ્રકારની પૂજા સિદ્ધ થાય છે. ૮ :
वेली री पूना मेह बतावे छ : - (१) ययोगसा२० पू० (२) क्यनयोगसा२. पू0 (3) मनोयोगसा। पू.