Book Title: Nyayasindhu Author(s): Nemisuri, Kirtitrai Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi AhmedabadPage 32
________________ ॥ श्रीन्यायसिन्धुः ॥ प्रमाणलक्षणे बौद्धोक्तदोषपरिहारः - स्वार्थावगाहि सविकल्पकमत्र सिद्धं, ज्ञानं प्रमाणमिति तत्र तिरस्क्रियां ये । कुर्वन्ति तेऽत्र सुगतानुचरा न जैनैः, किं खण्डिताः स्वमततत्त्वविचारणायाम् ।।४१।। सङ्क्षपतस्तु परकीयमतप्रपशू, प्रोद्भाव्य खण्डनमिहाऽस्य भवेत् तु युक्तम् । न ह्यन्यदीयमतखण्डनमन्तरा य - च्छ्रद्धास्पदं भवति तच्च परीक्षकाणाम् ।।४२।। अक्षोद्भवं भवति वस्त्ववगाहि पूर्व, ज्ञानं विकल्पनधियः पृथगेव तस्मात् । सामान्यगोचरमतिः सविकल्पिका ता - माश्रित्य तद् भवति मानमिमां विना नो ||४३।। लिङ्गोद्भवं तु सविकल्पकमेव तच्च, सामान्यगोचरतयाऽपि भवेत् प्रमाणम् । अर्थोद्भवत्वमिह यत्खलु निर्विकल्प - द्वारा प्रमात्वगमकं च परम्परातः ।।४४।। प्रामाण्यमत्र परमार्थत उक्तमेभिः, सद्गोचरत्वमथ सांव्यवहारिकं तु । संवादकत्वमत एव भवेच्च तस्य, ज्ञानान्तरादधिगतिर्न मते स्वतोऽस्मिन् ।।४५।। संवादकत्वमपि तत्र प्रवर्तकत्वात्, तत्प्राप्तिकारकतयाऽभिमतं च साऽपि । अर्थोपदर्शकतया तत एव बौद्धै - रिं विकल्पकमनंशमतेर्मतं च ।।४६।। तेनाऽऽगतं प्रमितिलक्षणमुक्तमत्र, जैनैर्न सर्वगमनंशमताववृत्तेः । नो निर्विकल्पकमतिर्व्यवसायरूपा, यस्मात् तथा यदि तदा न निरंशताऽस्याः ।।४७।। एतन्न युक्तमिह यद् भवति स्वरूप - निश्चायकं जिनमते ननु लक्षणं तत् । प्रामाण्यलक्षणमिदं च तथैव मान - त्वस्य व्यवस्थितिपरं न तदन्यथा तत् ।।४८।। तल्लक्षणं स्वयमनिश्चितरूपमेव, लक्ष्यव्यवस्थितिपरं न भवेत् ततोऽस्य । सिद्धिः पराभिमतमानत एव वाच्या, मानत्वमस्य गमकं खलु लिङ्गभावात् ।।४९।। एवं स्थितौ भवति वाधतयैव दोषो - ऽव्याप्तिः परेण कथिता न तु सोऽत्र युक्तः । प्रत्यक्षतो भवति किं त्वनुमानतो वा, बाधो न तत्र प्रथमस्तव कल्पनार्हः ।।५०।। नो निर्विकल्पनधियोऽक्षमतिर्भवेन्नो, नाऽस्मद्विशिष्टजनुषामपि सा प्रसिद्धा । संवेदनं स्वत इह प्रमितौ समर्थं, नो सम्मतं क्षणिकताद्यनुमाप्रणेतुः ।।५१।। यस्मात् क्षणक्षयितया सकलाक्षबुद्धि - नीलादिकं तु विषयीकुरुते मतेऽस्मिन् । सा साधयेद् यदि विकल्पमतिं विनाऽर्थं, सत्त्वेन कः क्षणिकतानुमया तवाऽर्थः ।।५२।। स्यात् स्वानुरूपसविकल्पकसंविधाना - न्मानत्वमस्य न च सोऽप्यनुभूयमानः । संवेदनात् स्वत इहाऽपि यदि प्रसिद्धिः, किं स्यात् तदा क्षणिकताऽवगता न तेन ||५३।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158