Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 132
________________ ॥ श्रीन्यायसिन्धुः ॥ नेच्छन्ति स्थापनां तु व्यवहृतिनिपुणा आमनन्तीति केचि दन्ये नो सङ्ग्रहस्याऽभ्युपगमविषयो नामभिन्नेयमाहुः ।। १३२७ ।। ॥ अथ प्रशस्तिः ॥ ( शार्दूलविक्रीडितम् ) ये दोषैकविलोकिनोऽपरगुणासंस्पृष्टवामाशया स्तेषां यद्यपि नैव मोदकणिकाऽप्यस्मत्कृतेः स्यादतः । Jain Education International - ऐदम्पर्यविदस्तु ये सुमनसो धन्या गुणग्राहिण स्तेषां किं न तथाऽपि तत्त्वमनने स्यादस्य मुल्लीनता ॥ १३२८|| सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा, प्राचीनोक्तिकृतादरा नयघटासङ्घट्टजातप्रथा । सङ्कीर्णार्थविवेचनैकरसिका सद्वृत्तिप सिन्धोरस्य ततोक्तिभङ्गलहरी मोदं विधत्तात् सताम् ।।१३२९।। दुर्योधागमसूत्रमात्रघटिते मार्गे दुरूहावधी, गच्छन्नाऽन्यमनाः स्खलन्नपि जनो नो हास्यपात्रं विदाम् । श्लाघ्यः किन्तु भवेत् स यावति गतोऽस्याऽंशेऽस्खलंस्तावति, प्रायस्तादृगहं भवेयमपि चेत् तत्कुण्ठिता हे शठाः ! ||१३३०।। ये शब्दार्थगताः प्रमादवशतो दोषाः प्रमावाधका, ग्रन्थेऽस्मिन्नयतोऽपि बाधविधुरा जाता विबोधस्य मे । तान् विज्ञाः ! क्षपयध्वमर्हदनुगा दोषप्रणाशोद्धुरा, याचे साञ्जलिरेतदेव भवतोऽहं नेमिरिष्टं मुहुः || १३३१ || (मन्दाक्रान्ता) यस्मिन् साक्षात्करवदरवत् सर्वद्रष्टा जिनेन्द्रः, प्राप्तैश्वर्यो विभुरपि निजं स्वत्वमाधत्त वीरः । यत्रोत्कर्षं कमपि गतवान् श्रीसुधर्माऽऽर्यव यं च प्रापुश्चरणनिरताः सूरयोऽन्येऽप्यनल्पाः ॥। १३३२।। पारम्पर्याद्यमुपगतवान् ख्यातकीर्त्तिप्रतापः, सूरिर्हीरोऽनघगुरुतपोगच्छपद्मांशुमाली । For Private & Personal Use Only १०५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158