Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०६
॥ श्रीन्यायसिन्धुः ॥ सूरेस्तस्याऽनु चरणरतः सेनसूरिः प्रकामं, यत्रोद्योतोऽभवदमितधीः सद्गुणवातधाम ।।१३३३।। यत्र प्राप्तस्तदनु विजयालिङ्गितो देवसूरिः, सिद्धान्ताम्भोनिधिरधिगताशेषनीतिप्रपञ्चः । सूरिः सिंहोऽप्यनु तत इह ख्यातकीर्तिर्बुधाग्र्यो, यं प्राप्याऽभूज्जिनवरमतोल्लासविस्तारकर्ता ।।१३३४।। पट्टे तस्मिन् समजिनसुतख्यातसाम्राज्ययोगे सम्यक्सूत्रोक्तविधिचरणावाप्तयोगैकलभ्ये । गीतार्थायप्रविततयशोवृद्धिचन्द्राङ्घिसेवोद्रेकप्राप्तामलशिवपथोल्लासिदीक्षाश्रुतस्य ।।१३३५।। गम्भीराप्तागममतविबाधादिप्रज्ञप्तियोगोनीतेः शास्त्राकलनमहितस्तुत्यहेमादिसूरेः । त्यक्तानार्यप्रथितविविधापातरम्यवजस्य, जैनश्रद्धासमफलरसास्वादिनो नेमिसूरेः ।।१३३६।। लक्ष्मीचन्द्राश्रयणसुभगेवाऽमितानन्ददात्री, दीपाली यत्प्रथमदिवसे सत्समारम्भवत्याम् । ऋत्वचंड्रोडुपतिमितसंवत्सरे(१९६६) मासि चोर्जे, सिन्धुस्तस्यां मधुपुरपुरे जन्मतिथ्यां प्रपूर्णः ।।१३३७।।
(स्रग्धरावृत्तम्) सन्त्येवेह प्रसिद्धाः सुविहितविषया माननीतिप्रवन्धा, येषां नो न्यायसिन्धुः कलयति तुलनामेष नव्यप्रचारः । किं न प्राप्तार्थसिद्धिस्तदपि मितरुचावर्थशब्दान्वयाभ्या
मासूर्येन्दुप्रचारं स्थितिमनुभवतु प्राज्ञपाठ्यस्तथाऽस्तु ।।१३३८।। ।। इतिश्रीतपोगच्छाचार्यश्रीविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादि
गुणोपेतनिजचरणविद्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्रधानगुरुवर्यश्रीवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितं
श्रीन्यायसिन्धुप्रकरणम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158