Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 131
________________ १०४ ॥ श्रीन्यायसिन्धुः ॥ ज्ञानं तथा किमपि शब्दसमन्वयेन, नैवाऽन्तरा भवति भर्तृहरेर्मते वै । नो निर्विकल्पकमतिस्तत एव तस्मिन्, नो वा विशेषणमतेस्तु विशिष्टबुद्धिः ।।१३१७।। सौत्रान्तिकस्य तु मते ऋजुसूत्रमूले, या निर्विकल्पकमतिः प्रथमाऽक्षमात्रात् । सैव प्रमा भवति शब्दघटाविहीना, तत्खण्डनं भवति भर्तृहरेर्मते च ।।१३१८।। व्युत्पत्तिभेदबलतः खलु शब्दभेदा - दर्थप्रभेदघटनानिपुणो नयज्ञैः । उक्तो नयः समभिरूढ इति प्रसिद्धो, रूढिर्न शक्तिरिह केवलमत्र योगः ।।१३१९।। पर्यायता भवति तेन नये न चाऽस्मिन्, शब्देषु हस्तिगजकुम्भिमतङ्गजेषु । सर्वत्र नीतिरियमेव मतो नयो जै - रेतन्नयप्रकृतिकः खलु शाब्दिकानाम् ।।१३२०।। द्रव्यार्थिको भवति यद्यपि शाब्दिकानां, नित्याक्षरादिमननात् तु नयस्तथाऽपि । शब्दे स्ववाचकतयोपगते निजांशे, पर्यायताविगमतः स कथञ्चिदस्मात् ।।१३२१।। व्युत्पत्तिहेतुरिह योऽभिमतः स एव, शब्दप्रवृत्तिजनको न तु तद्विभिन्नः । व्युत्पन्नधर्मघटना तु यदा कदाऽपि, शक्ये स्थिता भवति शब्दप्रवृत्तिहेतुः ।।१३२२।। व्युत्पत्तिगोचरघटासमकाल एव, शब्दप्रवृत्तिरिह वस्तुनि नाऽन्यकाले । एवं प्ररूपयति योऽभिमतः स एव - म्भूतो नयो बुधवरैरपरोऽन्तिमश्च ।।१३२३।। अस्मिन्नये गमनकर्मणि वर्तमाने, गोशब्दवृत्तिरुपपद्यत एव गोषु । तिष्ठत्सु नैव न च दोहनकर्मकाले, तच्छब्दवृत्तिरमला गतिशून्यतातः ।।१३२४।। एवं च नो व्यवहृतेर्विलयप्रसङ्ग - भीतिः समस्ति वितथार्थवती यतः सा । किं वोपचारबलतो व्यवहारभावो - ऽस्मिन् युज्यते न तु स मुख्यतयेति तत्त्वम् ।।१३२५।। (स्रग्धरावृत्तम्) निक्षेपविचारः - निःक्षेपा ये प्रतीता जिनवरतनयैर्व्यापकत्वेन विज्ञै - श्चत्वारो द्रव्यभावौ मितिनयनिपुणैः स्थापनानामनी च । ते सर्वे सङ्ग्रहस्याऽभ्युपगमविषया नैगमस्याऽपि तद्वत्, नाऽसङ्ग्राह्यास्तथाऽमी व्यवहृतिऋजुसूत्रोपगन्त्रोश्च मार्गे ।।१३२६।। शब्दाद्या भावमात्रे त्रय इह तु नयाः सम्प्रतीता नयज्ञै र्द्रव्यं नैवर्जुसूत्रो मनुत इति विदुः सिद्धसेनानुगास्तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158