________________
॥ श्रीन्यायसिन्धुः ॥
नेच्छन्ति स्थापनां तु व्यवहृतिनिपुणा आमनन्तीति केचि
दन्ये नो सङ्ग्रहस्याऽभ्युपगमविषयो नामभिन्नेयमाहुः ।। १३२७ ।।
॥ अथ प्रशस्तिः ॥
( शार्दूलविक्रीडितम् )
ये दोषैकविलोकिनोऽपरगुणासंस्पृष्टवामाशया
स्तेषां यद्यपि नैव मोदकणिकाऽप्यस्मत्कृतेः स्यादतः ।
Jain Education International
-
ऐदम्पर्यविदस्तु ये सुमनसो धन्या गुणग्राहिण
स्तेषां किं न तथाऽपि तत्त्वमनने स्यादस्य मुल्लीनता ॥ १३२८||
सिद्धान्ताप्रतिपन्थियुक्तिकलिता नव्यप्रचारोन्मुखा,
प्राचीनोक्तिकृतादरा नयघटासङ्घट्टजातप्रथा ।
सङ्कीर्णार्थविवेचनैकरसिका सद्वृत्तिप
सिन्धोरस्य ततोक्तिभङ्गलहरी मोदं विधत्तात् सताम् ।।१३२९।। दुर्योधागमसूत्रमात्रघटिते मार्गे दुरूहावधी,
गच्छन्नाऽन्यमनाः स्खलन्नपि जनो नो हास्यपात्रं विदाम् । श्लाघ्यः किन्तु भवेत् स यावति गतोऽस्याऽंशेऽस्खलंस्तावति, प्रायस्तादृगहं भवेयमपि चेत् तत्कुण्ठिता हे शठाः ! ||१३३०।। ये शब्दार्थगताः प्रमादवशतो दोषाः प्रमावाधका, ग्रन्थेऽस्मिन्नयतोऽपि बाधविधुरा जाता विबोधस्य मे । तान् विज्ञाः ! क्षपयध्वमर्हदनुगा दोषप्रणाशोद्धुरा, याचे साञ्जलिरेतदेव भवतोऽहं नेमिरिष्टं मुहुः || १३३१ || (मन्दाक्रान्ता)
यस्मिन् साक्षात्करवदरवत् सर्वद्रष्टा जिनेन्द्रः, प्राप्तैश्वर्यो विभुरपि निजं स्वत्वमाधत्त वीरः । यत्रोत्कर्षं कमपि गतवान् श्रीसुधर्माऽऽर्यव
यं च प्रापुश्चरणनिरताः सूरयोऽन्येऽप्यनल्पाः ॥। १३३२।। पारम्पर्याद्यमुपगतवान् ख्यातकीर्त्तिप्रतापः, सूरिर्हीरोऽनघगुरुतपोगच्छपद्मांशुमाली ।
For Private & Personal Use Only
१०५
www.jainelibrary.org