Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ २० ॥ श्रीन्यायसिन्धुः ॥ नाऽनन्तधर्मघटनाऽभिमतैकरूपे - ऽप्यस्त्याश्रये तव यतोऽशविभागतः स्यात् । बोधेऽप्यबोध उत वाऽक्षणिकत्वमिथ्या - रोपादिकल्पनमिति प्रविचारयाऽन्तः ||२३५।। किञ्चाऽनुमानमपि नैव विभिन्नमर्थं स्वस्मात् प्रकाशयति येन ततोऽपि सिद्ध्येत् । ज्ञानं क्षणक्षयितया न च ते मते स्याद्, व्याप्तिप्रसिद्धिरपि सर्वसमन्वयेन ॥ २३६ ॥ एतेन तेऽनुमितितोऽनुमतं च बोधे, तादात्म्यमर्थप्रतियोगिकमप्यपास्तम् । व्याप्तिग्रहस्य विलयादखिलानुमाया, उच्छेद एव नयतस्तव सिद्धिमेति ॥ २३७॥ ज्ञानेषु चेद्यदि विभिन्नधियः प्रकाशो, बाह्येषु तर्हि न स किं नु मतोऽपि येन । द्वेषोऽपि तेषु न भवेत् तव निर्निमित्तो, जन्मान्धताऽपि तव नश्यतु बाह्यदृष्टेः ॥२३८॥ स्थूलो न बोध इह तेऽनुमतश्च किञ्च यस्मात् स्वलक्षणमणूपगतं त्वयैव । अण्वात्मकस्तु न कदाचिदपीक्ष्यते स, बोधः कथं भवतु बोधविभासिताङ्गः ।।२३९ ।। उत्पत्त्यवस्थितिविनाशसमन्वयेन सत्त्वं स्वरूपत इहाऽर्थगतं प्रसिद्धम् । ज्ञानं विनाऽपि न कथं व्यवतिष्ठतेऽर्थो, दृष्ट्याऽर्थसृष्टिपरिकल्पनमप्रमाणम् ||२४०|| योग्योपलब्धिविरहाद् विरहो घटादेः सिद्धिः प्रयाति न तु केवलबुद्ध्यभावात् । योग्यत्वमत्र प्रतियोग्युपलम्भकस्य, स्वव्याप्यभिन्ननिखिलस्य भवेच्च सत्त्वम् ||२४१|| एवं च सन्नपि घटोऽत्र यदा न दृश्यो ऽयोग्यत्वमेव तु तदाऽभ्युपगन्तुमर्हम् । नैतावता विरह एव भवेच्च योगा- चारप्ररूपितदिशा जगतोऽखिलस्य || २४२ ।। प्रद्वेष एष तव चेद् यदि बाह्यभावे, ज्ञाने क्षणक्षयनिरूपणमर्थवन्नो । आत्मा त्रिकालकलितो ननु बोधरूपो, वेदान्तिनामिव कथं न मते तवाऽपि || २४३ || सामर्थ्यतद्विरहरूपविरुद्धधर्मा ध्यासादभिन्नतनुरेष मतो न ते चेत् । ज्ञानं क्षणक्षयमपि प्रमितं त्वया नो, युक्तं विरुद्धघटनात इहैकरूपम् || २४४।। " Jain Education International - ज्ञानं स्वसन्ततिगतं विदधाति बोधो, नो भिन्नसन्ततिगतं तव सम्मतं तत् । इत्थं विरुद्धघटना क्षणिकेऽपि बोधे, किं स्वान्यसन्ततिसमाश्रयणान्न चाऽस्ति || २४५ ॥ स्वादर्शनान्न परसन्ततिरस्ति तर्हि तेनाऽस्य दृष्टिविरहान्न कथं हासत्त्वम् । संवेदनात् स्वत इहाऽस्य यदि प्रसिद्धिः, किं तर्हि तस्य तत एव भवेन्न सिद्धिः || २४६ || किञ्चाऽऽन्यसन्ततिलये सुगतोऽपि नो ते, सर्वज्ञ इष्ट उत वा निखिलोऽपि स स्यात् । ज्ञानं विलक्षणमथाऽस्य विनैव युक्त्या, नाऽन्यस्य चेतसि पदं विदधाति बौद्ध ! || २४७ || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158