Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 107
________________ ८० व्यावहारिकप्रत्यक्षनिरूपणम् - स्याद् व्यावहारिकमथाऽपरसव्यपेक्ष जीवान्निजावरणकर्मलयोपशान्तेः । तस्येन्द्रियोद्भवमनिन्द्रियजन्यमेवं, द्वैविध्यमत्र कथितं जिनतन्त्रविज्ञैः ।। १००९।। तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पञ्च ज्ञानं ततो भवति सद्विषयावभासि । ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र, यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ||१०१० || न प्राप्यकार्यभिमतं नयनं मनश्चाऽधिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् । श्रोत्रादिकं त्वभिमतं ननु प्राप्यकार्य धिष्ठानदेशगतवस्तुप्रकाशकत्वात् ||१०११। नाऽत्राऽणुमानमपि जैनपदार्थविज्ञे - रिष्टं मनो महदिदं प्रतिपादितं तु । ज्ञानक्रमावरणकर्मलयोपशान्ति - भेदक्रमादुपगतो न मनोऽणुभावात् ॥ १०१२। अवग्रहादिस्वरूपनिरूपणम् एतद् द्वयं त्वथ चतुर्विधमार्हताना मेकैकशो मतमवग्रहनामधेयम् । ज्ञानं भवेत् प्रथममक्षघटादियोग्या वस्थानसञ्जनितदर्शनजन्यमत्र || १०१३।। सन्मात्रगोचरमवग्रहपूर्ववर्त्ति, यद् दर्शनं तदिह नैव मतं नवीनैः । किन्त्वक्षपातसमनन्तरमेव सत्त्व व्याप्यप्रकारकमवग्रहज्ञानमिष्टम् ||१०१४।। - Jain Education International - - ॥ श्रीन्यायसिन्धुः ॥ यच्चेन्द्रियस्य विषयेण समं नयज्ञैः, संयोजनं मतमवग्रहभेदरूपम् । तद्व्यञ्जनं न मनसो नयनस्य चाऽस्ति, योगस्तयोर्नहि मतो विषयेण यस्मात् ।। १०१५।। यः स्यादवग्रहधियाऽवगतो विशेष, ईहाख्यबोध इह तस्य विशेषधर्मैः । सम्भावनात्मकतया स च संशयात् स्याद् - भिन्नस्त्ववग्रहभवान्नियमेन पश्चात् ||१०१६।। ईहाग्रहावगतवस्तुविनिर्णयात्मा, बोधस्त्ववाय इति जैनमतप्रसिद्धः । तिष्ठन् स एव समयं ननु कञ्चिदत्र, स्याद् धारणा-स्मृतिपटुर्निजशक्तियोगात् ॥ १०१७|| एवं क्रमोत्थनिजकर्मलयोपशान्ते स्तेषां क्रमो भवति किञ्च तथोपलब्धेः । स्यात् पूर्वपूर्वमथवोत्तरबुद्धिहेतु - र्नो साङ्ख्यवत् तु करणक्रमतः क्रमोऽत्र ।।१०१८।। तस्मात् स्थितं सदवगाहिमतिस्तु पूर्वं तस्मान्मनुष्य इति वृक्ष इति प्रकारा । प्राय नेन मिथिलास्थजनेन भाव्यं, सैवाऽयमित्यवगतिक्रम आर्हतानाम् ||१०१९ || यत्राऽपि न क्रमतयाऽवगतिर्जनानामभ्यासगोचरपदार्थप्रकाशकेषु । बोधेषु तत्र शतपत्रविभेदवत् स्याच्छीघ्रोद्भवत्वबलतोऽनुपलक्षणं तु ।।१०२०।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158