Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 123
________________ ॥ श्रीन्यायसिन्धुः ॥ स्याद् वाउंशयोरपि विशिष्टतयाऽत्र भेदा - भेदात्मवन्धनबलान्मतिरेव शाब्दी । भङ्गात् सखण्डविषयादभिदाप्रधाना, भेदावगाहनपरा निरुपद्रवाऽथ ।।१२१४।। श्रीदेवसूरिप्रभृतेरमुमेव भावं, बोधे फले तु सकलासकलार्थताभ्याम् । भङ्गेषु हेतुषु विभाव्य प्रगल्भ एको, विद्वानुपैति सकलासकलस्वभावौ ।।१२१५।। द्रव्यार्थजात्यभिदया तु समग्रमेकं, द्रव्यार्थभेदमुपगम्य प्रवृत्त आद्यः । पर्यायजात्यभिदया च समग्रमेकं, पर्यायभेदमुपगम्य तथा द्वितीयः ।।१२१६।। भङ्गश्चतुर्थ इह तद्युगपद्विवक्षा - सिब्बैक्यमेकमुपगम्य प्रवृत्त एवम् । इत्थं त्रयोऽपि सकला ननु चाऽद्वितीयां - शं ख्यापयन्त इतरे विकलास्तु भङ्गाः ।।१२१७।। स्यात् सङ्ग्रहो व्यवहृतिश्च नयौ समग्रा - देशस्य मूलमितरे त्वितरस्य चैवम् । नाऽन्योक्ततत्त्वघटनाघटनत्वतः स-खण्डांशतद्विगमते ननु भङ्गनिष्ठे ।।१२१८।। यद्वन्नरे नरमतौ न सखण्डधीत्वं, सिंहेऽथवा हरिमतौ ननु तद्वदेव । उक्तं त्रिभङ्गविषयेऽपि मतिष्वखण्ड - बुद्धित्वमर्थत इमेऽपि भवन्त्यखण्डाः ।।१२१९।। यद्वद् भवेन्नरहरौ नरसिंहबुद्धौ, नाऽखण्डधीत्वमुभयांशसमन्वयेन । तद्वत् सखण्डमतितेतरभङ्गगार्थे, बोधेष्वतोऽर्थत इमे तु मताः सखण्डाः ।।१२२०।। तत्त्वार्थभाष्यविवृतौ वुधसिद्धसेन, एतन्मतं ननु विचारितवाननिन्द्यम् । सूक्ष्मेक्षिकात इह नैव विरोधलेशो - ऽप्यस्तीत्यकुण्ठमतयः परिभावयन्तु ।।१२२१।। भङ्गत्रये तु सकला विकलान्यभङ्गे - ष्वेषेति किञ्च वचनं नयवादतः स्यात् । स्याद्वादतस्तु प्रतिभङ्गमियं समग्र - देशाऽथवाऽभ्युपगता विकलस्वभावा ।।१२२२।। पञ्चप्रकारमिह जैनमतं परोक्ष - मानं व्यवस्थितमनन्यगतेस्ततश्च । यत् कुत्रचित् प्रथितमस्ति चतुर्विधत्वं, मानस्य तत् परनयान्न निजागमात् तु ।।१२२३।। सख्यास्वरूपविषयाश्च प्रयोजनं च, तेषां जिनागममता विदिता यथार्थाः । ते चाऽन्यतन्त्रगदिताः कथिता नयज्ञै - राभासतापरिगताः खलु युक्त्ययोगात् ।।१२२४।। द्वित्त्वं प्रमाणगतमत्र समासतोऽस्ति, व्यासाद् बहुत्वमपि दर्शितमेव पूर्वम् । चार्वाक-बौद्ध-कपिलादिप्रदर्शितो य, आभासरूप इह तत्त्ववियोगतः सः ।।१२२५।। ज्ञानात्मकं भवति मानमनन्यभास्य - मर्थावगाहि सविकल्पनरूपमत्र । सन्दिग्धतादिरहितं विपरीतमस्मा - दाभासमन्यनयसिद्धमुदाहरन्ति ।।१२२६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158