________________
॥ श्रीन्यायसिन्धुः ॥ स्याद् वाउंशयोरपि विशिष्टतयाऽत्र भेदा - भेदात्मवन्धनबलान्मतिरेव शाब्दी । भङ्गात् सखण्डविषयादभिदाप्रधाना, भेदावगाहनपरा निरुपद्रवाऽथ ।।१२१४।। श्रीदेवसूरिप्रभृतेरमुमेव भावं, बोधे फले तु सकलासकलार्थताभ्याम् । भङ्गेषु हेतुषु विभाव्य प्रगल्भ एको, विद्वानुपैति सकलासकलस्वभावौ ।।१२१५।। द्रव्यार्थजात्यभिदया तु समग्रमेकं, द्रव्यार्थभेदमुपगम्य प्रवृत्त आद्यः । पर्यायजात्यभिदया च समग्रमेकं, पर्यायभेदमुपगम्य तथा द्वितीयः ।।१२१६।। भङ्गश्चतुर्थ इह तद्युगपद्विवक्षा - सिब्बैक्यमेकमुपगम्य प्रवृत्त एवम् । इत्थं त्रयोऽपि सकला ननु चाऽद्वितीयां - शं ख्यापयन्त इतरे विकलास्तु भङ्गाः ।।१२१७।। स्यात् सङ्ग्रहो व्यवहृतिश्च नयौ समग्रा - देशस्य मूलमितरे त्वितरस्य चैवम् । नाऽन्योक्ततत्त्वघटनाघटनत्वतः स-खण्डांशतद्विगमते ननु भङ्गनिष्ठे ।।१२१८।। यद्वन्नरे नरमतौ न सखण्डधीत्वं, सिंहेऽथवा हरिमतौ ननु तद्वदेव । उक्तं त्रिभङ्गविषयेऽपि मतिष्वखण्ड - बुद्धित्वमर्थत इमेऽपि भवन्त्यखण्डाः ।।१२१९।। यद्वद् भवेन्नरहरौ नरसिंहबुद्धौ, नाऽखण्डधीत्वमुभयांशसमन्वयेन । तद्वत् सखण्डमतितेतरभङ्गगार्थे, बोधेष्वतोऽर्थत इमे तु मताः सखण्डाः ।।१२२०।। तत्त्वार्थभाष्यविवृतौ वुधसिद्धसेन, एतन्मतं ननु विचारितवाननिन्द्यम् । सूक्ष्मेक्षिकात इह नैव विरोधलेशो - ऽप्यस्तीत्यकुण्ठमतयः परिभावयन्तु ।।१२२१।। भङ्गत्रये तु सकला विकलान्यभङ्गे - ष्वेषेति किञ्च वचनं नयवादतः स्यात् । स्याद्वादतस्तु प्रतिभङ्गमियं समग्र - देशाऽथवाऽभ्युपगता विकलस्वभावा ।।१२२२।। पञ्चप्रकारमिह जैनमतं परोक्ष - मानं व्यवस्थितमनन्यगतेस्ततश्च । यत् कुत्रचित् प्रथितमस्ति चतुर्विधत्वं, मानस्य तत् परनयान्न निजागमात् तु ।।१२२३।। सख्यास्वरूपविषयाश्च प्रयोजनं च, तेषां जिनागममता विदिता यथार्थाः । ते चाऽन्यतन्त्रगदिताः कथिता नयज्ञै - राभासतापरिगताः खलु युक्त्ययोगात् ।।१२२४।। द्वित्त्वं प्रमाणगतमत्र समासतोऽस्ति, व्यासाद् बहुत्वमपि दर्शितमेव पूर्वम् । चार्वाक-बौद्ध-कपिलादिप्रदर्शितो य, आभासरूप इह तत्त्ववियोगतः सः ।।१२२५।। ज्ञानात्मकं भवति मानमनन्यभास्य - मर्थावगाहि सविकल्पनरूपमत्र । सन्दिग्धतादिरहितं विपरीतमस्मा - दाभासमन्यनयसिद्धमुदाहरन्ति ।।१२२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org