________________
॥ श्रीन्यायसिन्धुः ॥
सामान्यमस्य विषयः सविशेषमिष्ट - मन्योन्यसंवलितमेव यथार्थभावात् । तदिनमन्यनयसिद्धमवस्तुभावा - दाभासमस्य तु वदन्ति जिनागमज्ञाः ।।१२२७।। सामान्यमत्र कथितं द्विविधं तु तिर्य - गूर्ध्वत्वभेदभजनादनुगामि रूपम् ।। आद्यं समानपरिणामतया प्रसिद्धं, देशानुगाम्यभिमतं घटतादिनाम ।।१२२८।। द्रव्यस्वरूपमिह जैनमतप्रसिद्धं, कालत्रयानुगतमन्त्यसमानभावात् ।
तच्चोर्ध्वतेति निजपर्ययमात्रकाला - स्तित्वान्मृदाद्यभिमतं कलशाद्यभिन्नम् ।।१२२९।। षड्द्रव्यविचारः -
द्रव्याणि षड् जिनमते प्रथितानि तत्र, यश्चोपयोगगुणवान् स च जीव इष्टः । यः पुद्गलस्तदितरो ननु सोऽत्र रूपा - द्यालिङ्गितोऽभिमत आर्हततत्त्वविद्भिः ।।१२३०।। धर्मास्तिकाय इह जैनमतेऽस्ति लोका - काशस्थितो गमनलिङ्गवलात् प्रसिद्धः । शून्यत्वतो भवति यस्य च नो ह्यलोका - काशे गतिर्गतिमतोऽपि च पुद्गलादे: ।।१२३१।। मीनादयो जलचरा गतिमन्त एव, नैव स्थले जल इव प्रभवन्ति गन्तुम् । तस्माद् यथा जलसहायवशाच्च गन्तुं, शक्तास्तथाऽन्य इह धर्मवशाच्च तेऽपि ।।१२३२।। देशादयस्तु बहवोऽननुगामिभावात् तद्व्यक्तितादित इह प्रभवन्ति नैव । धर्मस्तदर्थकतयैव मतोऽनुगामी, एकोऽप्यशेषगतिमत्सहकारिरूपः ।।१२३३॥ धर्मास्तिकाय इव जैनमते प्रसिद्धो - ऽधर्मास्तिकाय इह तत्समदेशवृत्तिः । स्थित्यर्थता भवति तस्य तदा त्वलोका - काशेऽस्थितिः स्थितिमतां विरहेऽस्य युक्ता ।।१२३४।। कोऽप्यस्ति नो विनिगमो यत एव तस्मा - नाऽऽशक्यमत्र किमु तवयकल्पनेन । एकेन सिद्ध्यति फले विवुधेन किञ्च, मानं परोक्षविषये जिनवाक्यमत्र ।।१२३५।। रूपादियोगविरहाद् गगनादिवन्नो, नेत्रादिना तदुभयोर्मतिरस्ति लोके । युक्त्या द्वयं भवति लोकगतं प्रसिद्धं, जैनागमोऽपि ननु तत्र करोति बुद्धिम् ।।१२३६।। यश्चाऽवगाहनफलोऽभिमतः स एवा - ऽऽकाशाभिधो विभुरनन्तप्रदेशयुक्तः । सर्वाश्रयो भवति साश्रयतावलेन, पक्ष्यादिकेषु निखिलानुगतोऽप्यभिन्नः ।।१२३७।।
शब्दो हि पौद्गलिक एव मतो जिनेन, तस्याऽऽश्रितत्ववलतो गगनस्य नैव । सिद्धिस्तु गौतमसुतानुमता परन्तु, ज्ञेया प्रदर्शितदिशा गगनप्रसिद्धिः ।।१२३८।। यद्वर्तनात्मकतया परिणामि तत्त्वं, कालात्मकं भवति तत् तत एव नाऽन्यः । कालोऽत्र गौतमसुतानुमतो विभुस्तु, नित्योऽखिलाधिकरणोऽखिलकार्यहेतुः ।।१२३९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org