________________
९८
॥ श्रीन्यायसिन्धुः ॥ कालं च केचिदिह जैनमतेऽपि भिन्न - माहुस्तमक्षचरणानुमतं परं नो । द्रव्याणि षड् ननु मतानि नयेन तेषां, पञ्चाऽन्यथा त्वभिमतानि भवन्ति विज्ञैः ।।१२४०।। आकाशदेशविषयैव हि दिक्प्रतीति - भिन्ना ततो भवति दिङ् न जिनानुगानाम् । आशा तु गौतमसुतस्य विभिन्नताया - माशासु नैव सफला तत एव किञ्च ।।१२४१।। द्रव्यं मनो भवति पुद्गलरूपमेव, नो न्यायसम्मतमतोऽधिकता न चाऽस्य ।
क्षित्यादयोऽप्यभिमता ननु पुद्गलेषु, नो न्यूनता भवति तेन नये जिनानाम् ।।१२४२।। पर्यायनिरूपणम् -
पर्यायसंज्ञक इहाऽभिमतो विशेषो, द्वैविध्यमस्य गुणपर्ययभेदतः स्यात् । द्रव्येण तुल्यसमयः समये गुणोऽत्र, यश्च क्रमाद् भवति पर्ययनामकः सः ।।१२४३।। रूपादयस्तु सहभावितया गुणाः स्यु - नीलादि पर्ययतयाऽभिमतं च तेषाम् । प्राप्त्यादयोऽप्यसहभावितयैव पर्या-याः सम्मता न च भवन्ति गुणा जिनानाम् ।।१२४४।। उत्क्षेपणादिकमपि प्रमितं परेण, कर्मेति यद् भवति पर्ययभेद एतत् । जातिर्विशेष इति चाऽभिमतः पदार्थो, भिन्नः परेण ननु यो न च सोऽत्र सिद्धः ।।१२४५।। तादात्म्यतो भवति तार्किकसम्मताऽत्र, वैशिष्ट्यबुद्धिरपि नो समवायसिद्धिः । तबुद्धितो भवति नाऽपि निरुक्तभावा - दन्यस्त्वभाव उपपद्यत आर्हतानाम् ।।१२४६।। साक्षात्परम्परितभेदत आर्हताना - मिष्टं फलं द्विविधमस्य प्रमाणराशेः । स्वस्वावृतिक्षयशमादिफलं तु साक्षा - दानादिकं तु गुणतोऽभिमतं द्वितीयम् ।।१२४७।। या स्यान्निवृत्तिजनिकाऽभिमता तु सैव, हानात्मिका मतिरियं तु न केवलोत्था । या च प्रवृत्तिजनिकाऽभिमताऽत्र सा तू-पादानबुद्धिरपरा न च केवलात् सा ।।१२४८।। माध्यस्थ्यवृत्तिजनिकाभिमता परा या, सोपेक्षिका मतिरियं खलु केवलात् स्यात् । मत्यादितस्त्विह चतुर्विधवोधतः स्या - देतत्त्रयस्य भजनाऽनियतप्रवृत्त्या ।।१२४९।। एतत्फलं नहि प्रमाणत एव भिन्नं, यद्गौतमानुमतमेकनयावलम्वात् ।
नाऽभिन्नमेव सुगतानुमतं च भिन्ना - भिन्नं परन्तु नययुग्मवलात् प्रसिद्धम् ।।१२५०।। प्रमाणाभासविचारः -
या व्यावहारिकमतिस्त्विह दोषजन्या - ऽऽभासात्मिका भवति साऽप्रमितिर्मताऽथ । भ्रान्त्यात्मकस्त्ववधिबोध उदाहृतोऽत्रा - ऽऽभासो विभङ्ग इति चाऽऽर्हततत्त्वविद्धिः ।।१२५१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org