________________
॥ श्रीन्यायसिन्धुः ॥
भ्रान्त्यात्मको न चरणप्रविशुद्धिजन्यो, हृत्पर्ययो न सकलावरणक्षयोत्थः । बोधश्च केवलिन इत्यनयोर्न चैवा - ऽऽभासो मतो जिनवचोमृतपूतचित्तैः ।।१२५२ ।। अन्यानुभूतिजनितोऽननुभूतभावे, या च स्मृतिर्भवति दोषवशाज्जनानाम् । भ्रान्त्यात्मिका ननु मताऽऽर्हततत्त्ववेत्रा, साऽऽभासतापरिगताऽन्यसमाश्रितत्वात् ।।१२५३।। अन्यस्मृतौ भवति या ननु प्रत्यभिज्ञा - ऽध्यक्षादिबोधविषयेऽभिमता तु तस्याः । आभासता सति च सङ्कलनात्मकत्वे, केशादिगोचरतयाऽप्रमितित्वभावात् ।।१२५४।। यः साध्यसाधनतया मतयोर्विनाऽपि, व्याप्ति प्रकाशयति तां विषयापहारात् । तर्को भ्रमात्मकतया स मतो मतझै - राभासरूप इह जैनमतप्रसिद्धः ।।१२५५।। बाधादिदोषकलुषार्थतयाऽनुमाना - भासो मतो बहुविधो जिनतत्त्वविद्भिः । दोषत्रयं भवति धर्मानुसारि पक्षा - भासस्तदित्यनुमतं ननु तत्र जैनैः ।।१२५६।। धर्म्यप्रसिद्धिरिह नैव मतस्तु दोषो, यस्माद् विकल्पबलतोऽपि च धर्मिसिद्धिः । सर्वज्ञधर्मिणि ततोऽभिमतोऽस्तितादे - र्वाधाद्यभावगमकादनुमाऽऽर्हतानाम् ।।१२५७।। साध्यप्रसिद्धिरिह जैनमतेऽस्ति पक्षा - भासस्ततो ह्यनुमितेः प्रतिवन्ध इष्टः । अर्थान्तरत्वमपि दोष इहाऽस्ति पक्षा - भासस्ततो नहि यतोऽभिमतार्थसिद्धिः ।।१२५८।। बाधः परैरपि मतो ननु लिङ्गदोषः, किन्त्वत्र सोऽभिलषितः खलु धर्मिदोषः ।
प्रत्यक्षतोऽनुमितितोऽथ च शब्दतः स्या - न्मानान्तरादपि च सोऽभिमतो जिनानाम् ।।१२५९।। हेत्वाभासविचारः -
लिङ्गस्य दोष इह जैनमते त्रिधैवा - ऽनैकान्तिकोऽभिलषितो व्यभिचारनामा । तत्राऽऽदिमो भवति साध्यविपर्ययाभ्या - मेकत्र धर्मिणि घटा गमकस्य हेतोः ।।१२६०॥ सन्दिग्धनिश्चयप्रभेदत इष्यतेऽसौ, जैनैर्द्विधा भवति तद्वयतोऽत्र यस्मात् । तर्काख्यवोधजननप्रतिवन्धता न, व्यानिधया न च तथाऽनुमितिस्तदुत्था ।।१२६१।। सन्देहहेतुरत एव च कीर्त्यतेऽसौ, साधारणात्मकतयोभयबोधकत्वात् । यत्रोभयोः सहचरप्रतिलम्भमात्रं, तत्रैव संशयमतिः प्रथिता नयज्ञैः ।।१२६२।। सन्दिग्धसङ्घकतया व्यभिचारिहेतु - रेतावता जिननयेऽपि मतो नयज्ञैः । एकान्तता नियम एव ततो विरोधे - ऽनैकान्तिकत्ववचनं च तथाऽत्र योगात् ।।१२६३।। साध्येन नैव सहवृत्तिरसौ विरुद्धो, हेतुर्द्वितीय इह लिङ्गगतस्तु दोषः । तर्कप्रबोधविगमोऽभिमतस्ततोऽपि, नो संशयात्मकमतिप्रवणो विरुद्धः ।।१२६४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org