________________
१००
॥ श्रीन्यायसिन्धुः ॥
-
किन्त्वस्य साध्यविरहेण विनोपपत्तिर्नैवाऽस्त्यतो भवति तद्विरहानुमाऽत्र । किञ्चाऽस्य साध्यविरहप्रतिबन्धतो ज्ञे रिष्टं विरुद्ध इति नाम निजार्थयुक्तम् ||१२६५|| अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो दोषो द्विधा जिनमतेऽभिमतो नयज्ञैः । वादिद्वयान्यतरभेदबलात् स्वरूपा - त्वप्रसिद्धिरिति सोऽभिमतो न चाऽन्यः || १२६६ || पक्षे तु हेतुविरहोऽभिमतः स्वरूपा - सिद्धिर्नयेऽक्षचरणानुमते न जैनैः । यस्मान्न पक्षघटनामतिरार्हतानां हेतौ मताऽनुमितिहेतुतया तृतीया || १२६७।। बाधस्तु दर्शितदिशा ननु पक्षदोषो, नो हेतुदोष इति तद्रजनं यथार्थम् । दोषो न चेष्ट इह सत्प्रतिपक्षनामा, नो न्यूनताविभजने तत आर्हतानाम् ||१२६८ ।। दृष्टान्तदोषभजना नवधाऽन्वयेन, स्यादत्र तावदथ च व्यतिरेकतोऽपि । दृष्टान्तधर्मिणि मतः प्रथमस्त्वसिद्धिः, साध्यस्य सिद्धिजनकस्य तथोभयस्य ।। १२६९|| लिङ्गस्य लिङ्गिन इहाऽभिमतश्च तत्र, सन्देह एवमुभयोरपि सम्मतः सः । सोऽनन्वयश्च कथितोऽकथितान्वयश्च स्याद् व्यत्ययात् तदुभयान्वयदर्शनं च ।।१२७० ।। अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं, साध्यस्य सिद्धिजनकस्य तथोभयोश्च । सन्दिग्धसाध्यविरहोऽभिमतस्तथाऽत्र, सन्दिग्धलिङ्गविरहो जिनसम्प्रदाये || १२७१ ।। सन्दिग्धसाध्यगमकोभयशून्यताऽथ, व्याप्तेरकीर्तनमपि व्यतिरेकयोश्च ।
तद्दर्शनं च विपरीतत एवमत्र, व्याप्तेरभाव उभयोर्व्यतिरेकयोश्च ।। १२७२ ।। स्यान्न्यायदोष इह चोपनयोपसंहा - राभासभेदभजनाद् द्विविधो जिनानाम् । दृष्टान्तधर्मिणि वचोगमकस्य पक्षे, साध्यस्य वा यदि तदा प्रथमोऽत्र दोषः || १२७३ || साध्योपदर्शनवलाद् गमकोपसंहारस्तु द्वितीय इह जैनमते प्रसिद्धः । एषामुदाहृतिपदं स्वयमेव विज्ञै - र्भाव्यं स्थलेषु विविधेषु विवेकदृष्ट्या ॥ १२७४ || शब्दस्त्वनाप्तपुरुषोच्चरितोऽत्र शब्दा - भासश्चतुर्विधतयाऽपि मतोऽन्यभेदैः । आकाङ्क्षया विरहितानि पदानि यत्र, वाक्यं बुधैरिह खलु प्रथमं तदिष्टम् ।।१२७५ ।। यद्बाधितार्थविषयं तदयोग्यशब्द - सङ्केतगोचर इहाऽभिमतं द्वितीयम् । आसत्तिशून्यपदसङ्घटितं तु वाक्य - मिष्टं तृतीयमिह सन्निधिशून्यनाम ॥ १२७६।। अन्येच्छ्योच्चरितवाक्यमथाऽन्यबोधे - च्छोच्चारितत्वमतिगोचर इष्टमन्त्यम् । एतन्नयानुसरणाद् विवुधैर्विचार्य, सर्वे नया जिनमतानुगता यतो वै ।।१२७७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org