________________
१०१
॥ श्रीन्यायसिन्धुः ॥ नयविचारः -
प्रक्रान्तमाविषयभागविधिप्रवीणो, ज्ञेयो नयस्तदितरांशनिषेधकुण्ठः । नामानि प्रापकनिवर्तकसाधकोप - लम्भावभासकमुखानि बहूनि तस्य ।।१२७८।। द्रव्यार्थपर्ययप्रभेदत एष इष्टो, द्वेधा तथाऽर्थमननेन समासतोऽत्र । व्यासात् तु सप्तविध आर्हततत्त्वविद्धि - रुक्तोऽथ दर्शितनयौ सकलस्य मूलम् ।।१२७९।। द्रव्यं प्रधानत उपैति न पर्ययं तु, द्रव्यार्थिको गुणतयोपगमोऽस्य तस्मिन् । पर्यायमात्रमुपगच्छति पर्ययोऽपि, प्राधान्यतो न कुनयत्वप्रसक्तिरस्य ।।१२८०।। द्रव्यार्थिकस्य खलु नैगमसङ्ग्रहर्जु - सूत्रा मता विभजना व्यवहारमिश्राः । शब्दस्तथा समभिरूढसमन्वितैव - म्भूतोऽपरस्य जिनभद्रमते नयस्य ।।१२८१।। श्रीसिद्धसेनकृतिनस्तु मते न चर्नु - सूत्रस्य सम्मत इहाऽऽदिनये प्रवेशः । अन्यत् समानमुभयोर्मत एव सप्त, स्युबै नया न च विरोधघटाप्रथाऽत्र ।।१२८२।। शब्देन साम्प्रतमुखस्य न यन्नयस्यो - पादानतोऽपि ननु पञ्च नयाः प्रसिद्धाः । ते देशप्रस्थकवसत्युपनीतिभिः स्युः, शुद्धा यथाक्रममनिन्धधिया विभाव्याः ।।१२८३।। तत्राऽऽदिमो भवति सङ्ग्रहनामधेयो, वेदान्तदर्शनभवस्तत उच्यते ज्ञैः । एकान्ततत्त्वमननाश्रयणात् परन्तु, दुर्नीतिताऽस्य कथिता नयताऽन्यथा तु ।।१२८४।। सगृह्णतः सकलमेव तु भावराशिं, सत्त्वादिना भवति सङ्ग्रहताऽस्य युक्ता । इष्टः परापरतया द्विविधः स तत्र, सत्त्वादिना सकलगोचर आदिमस्तु ।।१२८५।। शुद्धः स एव कथितोऽन्यनयाप्रवेशाद, द्रव्यार्थिको भवति भेदगुणोऽप्यभेदात् । द्रव्यादिभावमननादपरो निरुक्तो - ऽशुद्धोऽन्यनीतिघटनाच्च तथाविधोऽपि ।।१२८६।। नो सङ्ग्रहे घटपटादिविशेषबुद्धे - झेंपो मतोऽनुभववाधभयाद् बुधानाम् । किन्तु प्रमा भवति सा न विशेषभागे, बाधादिति श्रुतिशिखानुगता वदन्ति ।।१२८७।। अस्तीति सङ्ग्रहनयाभिमतस्तु शब्दः, सत्ताभिधायकतया सकलानुगामी । सत्यार्थको न तु घटादिविशेषशक्तः, कुम्भादिशब्द इति ते प्रतिपादयन्ति ।।१२८८।। यच्चाऽनुगामि ननु सत्यतया मतं तत्, सामान्यतोऽत्र नियमो जनताप्रसिद्धः । सर्पादिबोधविषयेऽनुगता त्विदन्ता, रज्ज्वादिधर्मिणि यथा स्फुटमैक्षि लोकैः ।।१२८९।। सत्त्वं समग्रविषयानुगतं न चैवे - दन्त्वादि तेन मतमत्र तदेव सत्यम् । ब्रह्मस्वरूपमिदमिष्टमतो न चाऽस्मा - ज्ज्ञानं सुखं च प्रविभक्तमनन्यवेद्यम् ।।१२९०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org