________________
१०२
॥ श्रीन्यायसिन्धुः ॥ ज्ञानं घटीयमिति सर्वजनप्रसिद्धः, संसर्गमेकमवगाहत एव वोधः । नो तात्त्विको भवति सोऽथ ततः श्रुतिझै - राध्यासिकोऽभिमत उक्तनयावलम्बात् ।।१२९१।। संसर्ग इष्ट इह तात्त्विक आगमज्ञै - र्यदिन्नदेशसमयाश्रितयोयोर्न । आध्यासिकस्तु स हि कल्पितभेदमिश्रा - भेदात्मकस्तदुभयोर्नहि सत्यतायाम् ।।१२९२।। एकं त्ववश्यमत एव भवेदसत्य - मारोप्य रूपजड एव तथाऽभ्युपेयः । ज्ञानं समग्रविषयानुगतं तु सत्यं, सत्त्वात्मकं भवति सङ्ग्रहगोचरोऽत्र ।।१२९३।। इष्टस्वरूपमपि सर्वपदार्थगामि, तद्वन्मतं श्रुतिनये ननु सत्त्वरूपम् । सत्यं त्रिरूपमत एव वदन्ति तज्ज्ञा, ब्रह्मस्वरूपमखिलार्थगतं स्वसिद्धम् ।।१२९४।। यत्कापिलं मतमिह प्रथितं प्रधान - रूपं जगत् तदपि सङ्ग्रहमूलमेव । बुद्ध्यादिभेदमननात्मतया परन्तु, शुद्धं भवेन्न खलु तद् व्यवहारमिश्रम् ।।१२९५।। ज्ञानैक्यवादमननप्रवणोऽपि योगा - चारो न शुद्धनयदर्शितमार्गगामी । यत्सङ्ग्रहो भवति यद्यपि मूलमस्य, किं नो तथाऽपि ऋजुसूत्रनयव्यपेक्षा ।।१२९६।। चार्वाकदर्शनमथ व्यवहारनाम - धेयानयादभवदेष नयोऽस्य मूलम् । द्रव्यार्थिकः स्थिरपदार्थविधायकत्वात्, सोऽपीष्यतेऽस्य खलु सड्ग्रहतो विरोधः ।।१२९७।। सामान्यबुद्धिरिह कल्पितगोचरत्वा - न्मिथ्यैव नो भवति वस्त्ववगाहिनी सा ।। कुम्भादयोऽप्यणुचयानहि भेदभाजो, नो भूतभिन्नमिह किञ्चिदपि प्रसिद्धम् ।।१२९८।। लोकव्यवस्थितिरियं सकलाऽपि यस्मा - न स्याद् विशेषमननव्यतिरेकतोऽत्र । तस्माद् विशेष इह तैर्व्यवहारदृष्ट्या, सामान्यतो विरहितोऽनुमतो यथार्थः ।।१२९९।। प्रत्यक्षमेकमिह मानतयाऽभ्युपेतं, लोके यतो भवति तन्नियता व्यवस्था । नो पारलौकिककथाऽपि परोक्षमाना - भावान्मतेति गुरुदर्शितमार्गकाष्ठा ।।१३००।। इष्टोऽथ नैगमनयोऽनुगतस्वभाव - ग्राही विशेषविषयोऽपि परो नयज्ञैः । पूर्वप्रदर्शितनयद्वयमेलनात्मा, भिन्नो न चाऽयमिति केऽपि वदन्ति विज्ञाः ।।१३०१ ।। काणाद-गौतमनयावत एव जातो, मीमांसकस्य च नयोऽपि नयादमुष्मात् । नैके गमा इह भवन्ति यतस्ततोऽस्मिन्, स्यान्नैगमोक्तिघटना ननु योगतोऽपि ।।१३०२ ।। नो सङ्ग्रहे न च मतो व्यवहारनीती, बोधो विशिष्टविषयस्तु प्रमास्वभावः । अस्मिन्नये गुणप्रधानविवक्षया स्याद्, वैशिष्ट्यधीरवितथा न च किं गुणादेः ।।१३०३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org