________________
१०३
॥ श्रीन्यायसिन्धुः ॥
द्रव्यार्थिको भवति चाऽयमपि स्थिरार्थ - ग्राहित्वतोऽनुगतभावप्रकारकत्वात् । इष्टा वुधैस्तु ऋजुसूत्रमुखा नया पर्यायार्थिकाः क्षणिकतोपगमप्रवृत्ताः ।।१३०४।। इष्टो नयो बुधवरै ऋजुसूत्रनामा, सौत्रान्तिकादिनयमूलतया प्रसिद्धः । यद् भूतभाविसमयाननुगामिवर्त-मानं मतं ऋजुतया कुटिलं तदन्यत् ।।१३०५।। तत् सूत्रयत्यनुमितिप्रमितेर्हि सत्त्वात्, सौत्रान्तिको भवति तन्नयमार्गगामी । वैभाषिकोऽपि च तथा क्षणभङ्गपक्ष - संसूचनेन ऋजुसूत्रनयैकनिष्ठः ।।१३०६।। ज्ञाने मता कुटिलता स्थिरतेव भिन्ना - र्थग्राहिता तदुभयान्वयशून्यमत्र । ज्ञानं ऋजु प्रकटयत्यत एव योगा - चारोऽपि किं न ऋजुसूत्रनयावलम्बी ।।१३०७।। नो सत्यतार्थनियता न च बोधगा त - न्मिथ्यात्वमेतदुभयानुगतं ऋजुत्वम् । तत् सूत्रयन् किमिह माध्यमिको न शून्य - वादी भवेच्च ऋजुसूत्रनयोपगन्ता ।।१३०८।। प्राधान्यतोऽर्थमननप्रवणा इमे तु, चत्वार आर्हतमतेऽर्थनयाः प्रतीताः । अन्ये तु शब्दमुखतोऽर्थमतिप्रवीणाः, शब्दादयोऽत्र ननु शब्दनया मता जैः ।।१३०९।। शब्दादयस्तु ऋजुसूत्रनयोद्भवाः स्यु - रस्थैर्यवादघटना तत एव यस्मात् । वैचित्र्यतोऽथ च भवन्ति मिथो विभिन्ना, नैतावता भवति मूलनयेऽपि भेदः ।।१३१०।। एकक्षणेऽपि मनुतेऽर्थगतं पृथक्त्वं, लिङ्गादिभेदबलतो ननु शब्दनामा । इष्टो नयो न च पुनः स समानलिङ्ग - पर्यायशब्दवशतोऽर्थगतं पृथक्त्वम् ।।१३११।। यस्मात् तटोऽथ च तटी तटमित्यशेष - लिङ्गप्रवृत्तिवलतोऽभिमतो विभिन्नः । शब्दात् तटो न च तथा ऋजुसूत्रतः स, एकक्षणेऽभिमत इत्यतिरिक्त एषः ।।१३१२।। दाराः प्रियेति वचनाननुगामिभावाद्, भार्यार्थगोऽप्यभिमतो नयतस्तथाऽस्मात् । भेदः परन्त्विह भवेदपरोऽपि लिङ्ग - भेदात् प्रभेद इति सूक्ष्मधिया विचार्यम् ।।१३१३।। कालाद् बभूव भविता भवतीति भिन्नाद्, भेदस्तथा भवति मेरुगिरौ च शब्दात् । अस्म्यस्त्यसीतिपुरुषादिविभेदतोऽपि, भेदस्तथैव पुरुषादिगतोऽ- शब्दात् ।।१३१४।। एतन्नयप्रकृतिकस्तु भवेन्नयः स, विज्ञेन भर्तृहरिणा य इहोपदिष्टः । किन्त्वस्य सङ्ग्रहनयप्रकृतित्वमेवं, शब्दात्मविश्वमननप्रगुणत्वयोगात् ।।१३१५।। ब्रह्मस्वरूपमपि तेन मतश्च शब्द, ओंकाररूपमिति तज्जनितं हि विश्वम् । शब्दात्मकं प्रणवरूपविभुस्वसिद्ध - ब्रह्मात्मतत्त्वमननेन मतेऽस्य मुक्तिः ।।१३१६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org