________________
॥ श्रीन्यायसिन्धुः ॥
प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे, सत्त्वादिकं भवति वस्तुनि भिन्नभावात् ।
एकैकनीतिबलतोऽवगतं तु सप्त-भङ्गत्या द्विधा भवति सा निखिलैर्हि भङ्गैः ॥१२०१॥ सकलादेश-विकलादेशविचारः -
स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः, स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयः । स्यात्कारलाञ्छिततनुश्च मतश्चतुर्थो - ऽवक्तव्यकुम्भ इति तत्त्रितयं प्रमाणम् ।।१२०२।। सर्वान् समादिशति वस्तुगतानखण्ड - वस्त्वंशबोधनवलादभिदैकमानात् । एतत् त्रयं न तु सखण्डतदंशवोध - कार्यन्यभङ्गनिकरो विकलस्वभावः ।।१२०३।। इत्यामनन्ति ननु केचिदभङ्गभङ्ग - रूपार्थतत्त्वमननानिपुणाः परं ते । सर्वेऽपि धर्मविधयांऽशतया च भिन्ना, भङ्गेष्वतो न सकलासकलस्वभावौ ।।१२०४।। अंशो ह्यखण्ड इह चेद् यदि सत्त्वरूपः, किं तावता सकलबोधफलोऽस्य भङ्गः । द्रव्यादभेदघटनाबलतो नयाच्चेत्, तत् किं सखण्डमुखतो न तथाऽन्यभङ्गः ।।१२०५।। अंशद्वयस्य घटनाच्च सखण्डरूपा, धर्मा भिदांशमवलम्ब्य प्रकाशमानाः ।। नाऽभेदवृत्तिवलतो मिथ एव भङ्गै - रन्यैः समस्तघटनानुगताः स्फुरेयुः ।।१२०६।। अंशस्त्वखण्ड इह तत्त्वत एव भेदां - शाभानतोऽभिमुखयत्यखिलांशमेव । स्वात्मन्यभेदमननान्निजरूपमात्र - भानात् समग्रविषयोऽपि मतोऽस्य भङ्गः ।।१२०७।। एतन्न युक्तमविकल्पनबोधरूपो - ऽखण्डस्य बोध इह तेऽभिमतोऽन्यथा वा । आद्ये न शाब्दमतिता न च मानताऽस्य, यस्मादुभावपि विकल्पनबोध एव ।।१२०८।। अन्त्ये विकल्पकतया नियतं प्रकारा - द्यालम्बनोऽनुमत एव तवाऽपि सोऽपि । भेदांशगोचरतया निखिलांशबोध - निष्ठो न दर्शितनयादिबलं विना सः ।।१२०९।। वाक्यत्वतो भवति भेदमतिप्रवीणो, नोच्चारणं सफलमस्य विना तथात्वम् । स्यादन्यथैवपदयोजनमर्थवन्नो, भनेऽप्यखण्डविषये ननु भेदभानम् ।।१२१०।। अंशे भवेन्नियमतोऽत्र सखण्डरूपे, ग्राह्यांशयोर्यदि तु भेदमतिस्तदाऽपि । नाऽखण्डधर्मविषयेऽपि निरूपकस्या - ऽवच्छेदकस्य किमु भेदमतिस्तु भङ्गे ।।१२११।। किञ्चांऽशयोर्भवतु भेदमतिस्तथाऽपि, भिन्नोऽश इष्ट इह तवयमेलने यः । नो तस्य भेदमतिरस्ति विभिन्नतोऽशात्, तस्मादभेदमननं किमु नोऽशमात्रे ॥१२१२।। किं वा ययोरपि प्रतीयत एव भेदः, स्वस्वाभिधायकवचःप्रतिपाद्यभावात् । किं नो तयोरपि परस्परमिष्टवस्त्वं - शाभेदतो मतिरभिन्नतया सखण्डैः ।।१२१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org