________________
९४
॥ श्रीन्यायसिन्धुः ॥ धर्मान् समादिशति वस्तुगतानशेषा - नैक्यस्य पर्ययनयादुपचारवृत्त्या । द्रव्यार्थतस्तदपृथक्त्वप्रधानभावा - देषा नयानुगमना प्रतिभङ्गमेव ।।११८८।। कालात्मरूपगुणिदेशफलस्वदेश - संसर्गबन्धवचनैः प्रथिताऽष्टभिः सा । द्रव्यार्थपर्ययनयार्पणतो ह्यभेद - भेदौ प्रधानगुणवृत्तित आदिशन्ती ।।११८९।। कालो य एव खलु वस्तुगतस्य चैक - धर्मस्य सैव तदभिन्नतया परेषाम् । द्रव्यार्थतो भवति तेन समस्तवस्त्वं - शज्ञापकोंऽशविषयोऽपि सदादिभङ्गः ।।११९०।। अस्तित्वनिष्ठमिह यत् खलु धर्मतादि, तन्नास्तितादिगतमात्मसमानभावात् । द्रव्यार्थतो भवति तद्गुणताऽविशिष्टा, धर्मेष्वभेदत इतोऽपि समग्रबोधः ।।११९१।। एकस्य यस्तु गुणिदेश इह प्रसिद्धो - ऽन्येषां स एव गुणिदेशसमानभावात् । द्रव्यार्थतो भवति चैकमुखेन भङ्ग, एकोऽप्यशेषघटनावगतिप्रवीणः ।।११९२ ।। यत् स्वानुरागकरणं फलमेकधर्मा - दत्राऽस्ति धर्मिणि तदेव विशेषणत्वात् । धर्मान्तराच्च सकलस्य फलैक्यभावाद्, द्रव्यार्थतोऽवगमकोऽभिदयैकभङ्गः ।।११९३।। एकस्य देश इह यो निखिलस्य सैव, द्रव्यार्थतो भवति देशसमानभावात् । धर्मेषु चैक्यमत एकमुखेन सर्वा - नेकोऽपि बोधयति भङ्ग इति प्रमाणम् ।।११९४।। संसर्ग इष्ट इह यो निजदेशतो वै, एकस्य सैव निखिलस्य तदेकभावात् । द्रव्यार्थतो निखिलधर्ममतिप्रवीण, एकोऽपि दर्शितदिशाऽभिदयैव भङ्गः ।।११९५।। सम्बन्ध एवमिह वस्तुगतः सदादे - रेकस्य यो भवति सैव परस्य नाऽन्यः ।। द्रव्यार्थतो जिननयेऽभिदया प्रधाना - देकोऽपि सर्वघटनागमकोऽत्र भङ्गः ।।११९६।। संसर्गतो भवति यद्यपि नाऽस्य भेदा - भेदात्मकत्वसमभावतयाऽत्र भेदः । भेद: प्रधान इह नैव परन्त्वभेदः, किं तावता भवति नैव तथाऽपि भेदः ।।११९७।। यश्चाऽस्तिशब्द इह सत्त्वविशिष्टरूपे, इष्टः स एव निखिलात्मनि तत्र शक्तः । द्रव्यार्थतो वचनशक्तिसमानभावा - देकोऽपि चैकमुखतो निखिलेषु भङ्गः ।।११९८।। पर्यायनीतिबलतोऽप्युपचारतोऽत्र, तैरष्टभिश्च प्रतिभगमनन्तभेदान् । साऽभेदतत्त्वमवलम्ब्य प्रमाणसप्त - भङ्गी समादिशति चैकमुखेन धर्मान् ।।११९९।। तैरष्टभिर्भवति भेदप्रधानभावात्, पर्यायनीतिबलतो यदि मुख्यवृत्त्या । द्रव्यार्थतस्तदुपचारबलात् तदा तु, सा नीतिजैकमुखतो न समग्रनिष्ठा ।।१२००१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org