________________
॥ श्रीन्यायसिन्धुः ॥
धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति - नास्तित्वसङ्घटनतत्पर आर्हतानाम् । धर्मांशमात्रमवलम्ब्य भवेच्च येन, भने द्वितीय इह वेदनयप्रवेशः ।।११७५।। सद्व्यतादिषु घटादिगतेषु सत्सु, वक्ता विवक्षति यमेव प्रधानभावात् । तेनाऽस्ति कुम्भ इह न त्वविवक्षितेन, नास्तित्वमिष्टमत एव भवेच्च तेन ।।११७६।। नो कल्पनारचित एव विवक्षयाऽस्ति, धर्मो यतो भवतु संवृतिसत्त्वमत्र । वस्त्वंशताश्रयतया स्थित एव धर्मे, स्याद्वादतो विभजना तु विवक्षयैवम् ।।११७७।। इत्थं व्यवस्थित इहाऽऽश्रयकालद्रव्या - वच्छेदकैरपरवस्तुगतैर्द्वितीयः । भङ्गो न वेदनयसम्मत एवमन्या - ऽवच्छेदकत्वमननादथ धर्मतोऽपि ।।११७८।। वस्त्वंशगोचरतया तु यदा प्रसिद्धौ, भङ्गौ तदा न कथमत्र तृतीयभङ्गः । पूर्वप्रदर्शितदिशोभययोगसिद्धो, ह्यशान्तरावगमहेतुरनन्यलभ्यः ।।११७९।। धर्मद्वयस्य युगपत् तु विवक्षितस्य, प्राधान्यतः किमपि नो वचनं यतोऽस्ति । वस्त्वंशतामुपगतस्य चतुर्थभङ्गो - ऽवक्तव्यरूप इह तत्प्रतिपत्तिभेदात् ।।११८०।। नन्वत्र वेदनय आगत आर्हतानां, यस्मादनिर्वचनमिष्टमिदं तु विश्वम् । दृश्यं यथा श्रुतिविदां भवतां तथैव, नो चेद् विशेष इह कोऽपि निरूपणीयः ।।११८१।। नोच्चैरिदं श्रुतिविदा वचनीयमार्हत् - स्याद्वादतत्त्वमनने सकलस्य यस्मात् । इष्टा नयस्य घटना भजनाविदां किं, नैकान्तताऽनभिमता परमत्र तत्त्वात् ।।११८२।। वस्त्वंश एव वचनाविषयत्वमिष्टं, किञ्चाऽत्र जैननयवर्त्मनि तुर्यभङ्गात् । नो वै तथा श्रुतिविदां मतमीदृशं त - न्मिथ्यात्वलक्षणतयाऽनुमतं परन्तु ।।११८३।। तैः सर्वथैव सदसत्त्ववियोगरूपा - वक्तव्यता त्वभिमता ननु मायिकेषु । जैनैः पुनः सदसदात्मकवस्तुनिष्ठा - ऽवक्तव्यता तदतिरिक्ततयैव गीता ।।११८४।। अंशः स चाऽपि वचनीयतया - ऽभ्युपेतोऽवक्तव्यशब्दरचना ननु तत्र यस्मात् । एकान्तवादमनने तु चतुर्थभङ्गो, व्याघाततो नहि भवेदुपदर्शनीयः ।।११८५।। भङ्गत्रयं तदपरं त्वथ पूर्वयोगात्, तुर्यस्य यज्जिनमतं तदपि प्रसिद्धम् । पूर्वप्रसिद्धिबलतोऽधिगतांशभिन्नां - शानां प्रबोधजनकं भजनान्वितं च ।।११८६।। वस्त्वंशगोचरतया प्रतिधर्ममेषा, वस्तुप्ररूपकतयैव विवक्षया वै । तस्मात् स्थिता विधिनिषेधनयोः परेषां, सन्देहनाशनिपुणा ननु सप्तभङ्गी ।।११८७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org