________________
॥ श्रीन्यायसिन्धुः ॥ यद्वर्तनात्मकतया निजसंश्रयेण, कालास्तिता नहि घटादिषु तन्न युक्तम् । नो सर्वथा जिनमतेऽनुमतो ह्यभेदो, भेदोऽपि किन्तु तत एव कथं न सा स्यात् ।।११६२ ।। स्यादस्ति भङ्ग उपपद्यत एव तस्माद्, वस्त्वंशबोधकतया प्रथमो जिनानाम् । नैव द्वितीय इह वेदमतप्रवेशाद्, भङ्गोऽप्यसिद्धिकवलायत आर्हतानाम् ।।११६३।। यद्यप्यभावघटना प्रतियोग्यवृत्ति - धर्मेण तैरपि मता व्यवहारकाले । मिथ्यात्वमप्यखिलगं तत एव तेषां, सिद्धिं प्रयाति विरहय्य न तं यतस्तत् ।।११६४।। स्वाधारनिष्ठविरहप्रतियोगितैव, मिथ्यात्वमिष्टमखिलानुगतं च तेषाम् । तत्पारमार्थिकतया विरहं घटादे - रादाय सिद्ध्यति सतो व्यवहारकाले ।।११६५।। अद्वैतहानिभयतः स च केवलात्मा - ऽऽधारस्वरूप उपदर्शित एभिरत्र । एवं च जैनमततुल्यतया प्रतीति - रस्त्येव तस्य विबुधाग्य ! तथाऽपि नैवम् ।।११६६।। यस्मादभाव इह तैर्द्विविधः प्रदिष्ट, एकस्तु तत्र चितिरूपतयैव सिद्धः । अन्यो घटादिविरहो व्यवहारतो य - स्तत्साम्यता भवति जैनमते न चैव ||११६७।। यस्मादयं घटपटादिवदेव माया - जन्यो मतोऽधिकरणाद् व्यतिरिक्तरूपः । प्राचीनपद्धतिसमाश्रयणेऽप्यभेदै - कान्तस्ततो भवति कल्पितभेदमूर्तिः ।।११६८।। जैनैर्मतोऽधिकरणेन समं तु तस्य, भेदोऽप्यभेद इव तुल्यतयाऽविशेषात् । द्रव्यादिनाऽपि च तथैव गुणादिकस्य, भेदो न कल्पिततया श्रुतिवादिवत् तु ।।११६९।। वस्त्वंशताविधिनिषेधनयोर्न तेषा - मिष्टा परन्तु तदुभावपि वस्तुभूतौ । एवं च धर्मविधयैव मतं च धर्मे - ऽवच्छेदकत्वमपि तैः प्रतियोग्यवृत्तौ ।।११७०।। तस्मिन् द्विधा भवति जैनमते तु धर्मे - ऽवच्छेदकत्वमविगानतया प्रसिद्धम् । एकं तु धर्मविधयोभयसिद्धमन्य - दव्याप्यवृत्तिघटनाभजनानिमित्तम् ।।११७१।। यस्मादसत्त्वमिह नैव पटादिभाव - मात्रेण कुम्भगतमिष्टमितोऽन्यथाऽपि । द्रव्यादिभिस्त्वभिमतं तत एव सप्त - भङ्गी मता जिननये तु सहस्रभङ्गी ।।११७२ ।। एकं तु धर्ममधिकृत्य मताऽत्र सप्त - भङ्गी बुधैर्विधिनिषेधविवक्षया वै । वस्त्वंशमेकमधिकृत्य हि सप्तधैव, शङ्का तथैव वचनं च तथैव युक्तम् ।।११७३।। यद्धर्मयोर्विधिनिषेधनयोर्विरोधा - देकत्र वस्तुनि घटा न विना निमित्तैः । भिन्नैस्ततोऽधिकरणादिगमन्यदेवा - ऽवच्छेदकत्वमिह यन्ननु तच्च धर्मे ।।११७४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org