________________
॥ श्रीन्यायसिन्धुः ॥
बाधां विनैव न च सत्त्वमतिर्नयज्ञै - ौन्तेति बोधविषयोऽभ्युपगन्तुमिष्टा । तस्मादवश्यमवलम्व्य यथार्थमर्थ - मेषोद्गतेति सकलप्रतिपन्नमेतत् ।।११४९।। उक्तेषु सत्त्वनिकरेषु यदाऽस्ति दोषः, सत्त्वं तदा भवतु किं न च तैर्विभिन्नम् । स्यादस्ति भङ्गविषयो न ततस्तृतीयः, पक्षोऽपि मान्य इह तत्त्वपरीक्षकाणाम् ।।११५०।। पक्षश्चतुर्थ इह चेद् यदि वाद्यभीष्टः, सामान्यतो भवति किं तदवाच्यमत्र । किं वा विशेषत इति प्रथमो न युक्तः, सत्त्वादिशब्द इह तत्प्रतिपादको यत् ।।११५१।। अन्त्ये विशेषवचनाप्रतिपादनेऽपि, क्षीरादिगा मधुरतेव न तस्य लोपः । विध्यात्मता घटपटादिकवस्तुरूप - मग्नाऽस्तिशब्दत इहाऽभिमता जिनानाम् ।।११५२।। वस्तूच्यते विधिनिषेधकरम्वितं झै - रंशाविमौ तु भवतोऽस्य निजस्वरूपौ । स्यात्कारयोजनबलादविरोधतस्तौ, भङ्गद्वयेन प्रथितौ भवतो नयज्ञैः ।।११५३।। वस्त्वंशवोधकतयाऽभिमतास्तु भङ्गा, अन्येऽपि वस्त्ववगतिस्त्विह सप्तभङ्गया । नो गौतमादिमततोऽप्यविशेषताऽत्र, वस्त्वंश एव ननु वस्तुतया मतस्तैः ।।११५४।। आपेक्षिके यदि तु वस्तुगतेंऽशमात्रे - ऽवच्छेदकत्वमपि तस्य तदा त्वपूर्वम् । द्रव्यादिगं प्रमितितोऽवगतं तदेव, नो तार्किकादिभिरभीष्टमनन्यसिद्धम् ।।११५५।। तैर्जात्यखण्डसमभावविभिन्नमात्रे - ऽवच्छिन्नतानियममात्रबलाद् घटादौ । सामान्यमभ्युपगतं ननु वृत्तिताद्य - वच्छेदकं न तु जिनाभिमतं तदेव ।।११५६।। अव्याप्यवृत्तिघटना ननु यादृशस्या - ऽवच्छेदकस्य मननादभिमन्यते तैः । अस्तित्वधर्मभजनाऽपि च तादृशेना - ऽवच्छेदकेन प्रथिता जिनसम्प्रदाये ।।११५७।। तैः किन्तु देशसमयद्वयमात्रमेवा - ऽवच्छेदकं प्रथितमीदृशमार्हतैस्तु । धर्मादयोऽप्यभिमता अनुभूतिसिद्धा, एतादृशा इति कथं मतयोर्न भेद: ।।११५८।। वृत्तित्वरूपमपि तेन यदीष्यतेऽत्रा - ऽस्तित्वं तदाऽपि न च दोषगणप्रचारः । तद्वृत्तिता भवति तेन निरूपिताऽप्य - वच्छेद्यभावनियताऽनुमता परैस्तु ।।११५९।। व्याप्तिस्वरूपमननावसरे हि सार्व - भौमैः प्रदर्शितमिदं वचनान्तरेण । तद्युक्तितो भवति देश इव स्वकाले, वृत्तित्वमस्तिपदवाच्यमदुष्टमेव ।।११६०।। उत्पत्त्यवस्थितिलयात्मकताऽपि सत्ता, स्यादस्तिता यदि तदाऽपि न दोषपङ्कः । एकक्षणे त्रितयमस्ति विभिन्नधर्मः, प्रत्येकशः समुदयात् तु निरुक्तरूपैः ।।११६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org