________________
॥ श्रीन्यायसिन्धुः ॥ सत्त्वं तथा च सुगतादिमते घटादे - रेकान्ततः सकलधर्मवलात् प्रसक्तम् । किं वा ह्यसत्त्वमनयोर्नहि पक्षयोस्तु, वृत्तिनिवृत्तिरुत वा विषयापहारात् ।।११३६।। नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा, सत्तात्मिका तव मता परजातिरत्र । सा व्याप्यवृत्तिकतयैव कथं करोत्व - वच्छेदकस्य नियतस्य तदा व्यपेक्षाम् ।।११३७।। स्वस्मिन्न सा न च तथाऽन्यसमानभावे - ष्वस्तित्वबुद्धिरपि तत्र कथं घटेत । उत्पत्त्यवस्थितिलयत्रितयस्वरूप - मस्तित्वमिष्टमथ चेत् स्वमतावलम्बात् ।।११३८।। नो तर्हि युज्यत इदं त्रितयं घटत्वा - घेकैकधर्मबलतो न मतं यतस्ते । यस्मात् त्रयोऽपि मिथ एव विरोधशीला, एकत्र धर्मिणि विना न विभिन्नधर्मः ।।११३९।। वृत्तित्वमिष्टमथ कालनिरूपितं ते - ऽस्तित्वं तदा स यदि तार्किकगोत्रमान्यः । सिद्धान्तभङ्ग इह तर्हि महाननर्थो, दोषः पतेत् त्वयि भवेच्च न कालगं तत् ।।११४०।। स्याद् वर्तनात्मकतया निजतन्त्रसिद्धः, कालस्तथाऽपि न च स व्यतिरिक्तरूपः । किन्त्विष्यते नवपुराणतयोपलभ्य - मानो घटादिरिति ते न निजात्मनिष्ठाः ।।११४१।। सा वृत्तिताऽधिकरणात्मकदेशतोऽथा - ऽभीष्टाऽस्तिता तव बुधाग्य ! निरूपिता या । द्रव्येष्वनंशिषु तदा न च तस्य योगो, यस्मादनाश्रिततया प्रमितानि तानि ।।११४२।। स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे - ष्वस्तित्वमिष्टमिह तन्न भवेच्च युक्तम् । क्षेत्रं यतोऽधिकरणापरनामधेयं, स्वापेक्षमेव न भवेनिजवृत्तितायाम् ।।११४३।। अस्तित्ववान् घट इहाऽभिमतो घटत्वाद्, यैस्तेऽक्षपादमत दर्शित एव मार्गः । स्यात्कारशब्दबलतोऽपि न चाऽऽद्यभङ्गे, एकान्ततत्त्वमननादधिकं प्रविष्टम् ।।११४४।। यश्च द्वितीय इह तेऽभिमतोऽस्ति भङ्गो, वेदान्तिदर्शनमतादधिको न सोऽपि । वेदान्तिभिर्ननु पटादिसमानधर्मैः, कुम्भाश्रयत्वविरहो घटवत्यपीष्टः ।।११४५।। भङ्गद्वये प्रतिहते न भवन्ति चाऽन्ये, भङ्गा यतस्तदुभयाश्रयणात् प्रवृत्ताः । इत्यादिकं जिनमतानवबोधलब्धं, ध्यान्ध्यं परे प्रकटयन्ति कुमार्गगत्या ।।११४६।। पूर्वप्रदर्शितविकल्पभरैः किमिष्टं, सत्त्वादिकं घटगतं न प्रतीयते वा । नाऽव्याप्यवृत्ति किमु वा न च दर्शितार्थ - भिन्नस्वरूपमथवा तदवाच्यमेव ।।११४७।। आद्यः समस्तजनसिद्धप्रतीतिलोप - भीत्यैव नो बुधवरैः समुपासनीयः । आदानहानविषयौ भवतो न यला - वेकान्ततत्त्वमनने न ततो द्वितीयः ।।११४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org: