________________
॥ श्रीन्यायसिन्धुः ॥
स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः, स्वद्रव्यभावसमयाश्रययोगतः सः । स्यानास्ति कुम्भ इति योऽभिमतो द्वितीयो - ऽन्यद्रव्यभावसमयाश्रयसंश्रयात् सः ।।११२३।। स्यादस्ति नाऽस्ति च घटोऽभिमतस्तृतीयो, भङ्गः क्रमादुभययोगनिरूपकाभ्याम् । तद्धर्मयोर्विधिनिषेधनयोर्विवक्षा - वैचित्र्यतोऽत्र परप्रश्नवशाच्च युक्तः ।।११२४।। यत्रोभयोर्युगपदेव भवेद् विवक्षा - ऽवक्तव्य एव घट इत्यपरानुयोगात् । भङ्गश्चतुर्थ उभयोश्च निरूपकाभ्यां, स्यात्कारलाञ्छिततनुर्ननु तत्र बोध्यः ।।११२५।। भङ्गत्रयेण सह प्रश्नविशेषतस्तु, तुर्यस्य सङ्घटनतोऽत्र भवन्ति भङ्गाः । अन्त्ये त्रयो निजनिरूपकभेदयोगैः, प्रत्येकशी जिनसुताभिमता विविक्ताः ।।११२६।। तुर्यस्य चाऽऽद्यघटनान्ननु पञ्चमः स्यात्, षष्ठो द्वितीयघटनात् तु मतो जिनानाम् । भङ्गो मतस्त्विह तृतीयविमिश्रणेन, ज्ञैः सप्तमो न च ततोऽप्यधिकोऽस्ति भङ्गः ।।११२७।। यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो, भङ्गस्तृतीय इति तेन भवेन्न भिन्नः । अन्यस्य सङ्घटनतः पुनरुक्तता स्यात्, सिद्धोऽथवा भवति भङ्ग इतीष्यते नो ।।११२८।। स्यादव्ययं पदमतो यदि नोक्तिरस्या - ऽनेकान्ततावगमकस्य तदोक्तभङ्गाः । सत्त्वादिकं घटपटादिगतं यथा स्वै - द्रव्यादिभिः परगतैश्च तथा वदेयुः ।।११२९।। कुम्भादिकस्य निजरूपहतिश्च तत्त्वे, सर्वात्मता भवतु वा न ततो व्यवस्था । स्याच्छब्दसङ्घटनतस्तु कथञ्चिदेव, सत्त्वादिकावगमका न तु सर्वथा ते ॥११३०।। यत् सत्त्वमत्र निजधर्मवशात् तदेवा - ऽसत्त्वं परैरिति भवेत् प्रथमान्न भिन्नः । भङ्गो द्वितीय इति तन्नियता न चाऽन्ये, भङ्गा इहेति सुगतानुगताः पठन्ति ।।११३१।। तेषां कथं निजमतक्षतितो न भीती, रूपत्रयं भवति लिङ्गगतं न यस्मात् । तत्राऽपि साध्यवति यद् गमकस्य सत्त्वं, तत् स्याद् विपक्षगणतो नियमादसत्त्वम् ।।११३२।। किञ्चैकता यदि तु भावनिषेधयोः स्या - न स्यात् प्रवृत्तिरिह नैव निवर्तनं तत् । भावो यतो न च निषेधविभिन्नरूपो, नो वा निषेध इह भावविभिन्नरूपः ।।११३३।। कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा, सत्त्वे तु सा भवितुमर्हति न त्वसत्त्वे । कुम्भो न चाऽयमिति बुद्धिवलानिवृत्ति - रेकान्तसत्त्वमनने न भवेच्च तद्वत् ।।११३४।। अव्याप्यवृत्तिविषयोपगमे तु युक्ता - ऽवच्छेदकस्य नियतस्य सदादिभावे । संयोजना विधिनिषेधनयोर्विरोध - रक्षार्थमत्र न तु तद्विपरीतपक्षे ।।११३५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org