________________
८८
॥ श्रीन्यायसिन्धुः ॥ शब्दात्मकोऽपि न भवेदत एव चाऽर्थो, वैरूप्यदर्शनभयो [भयत्र तुल्यः । किञ्चाऽग्निदुग्धतुरगादिपदप्रवृत्तौ, दाहादिकं मुखगतं तदभेदतः स्यात् ।।१११०।। दोषादतो भवति नैव च शब्दतोऽर्थो, नाऽर्थाच्च शब्दघटना तत एव दोषात् । आद्योऽपि पक्ष इह तेन भवेद् व्युदस्तः, शब्दार्थयोर्जननमन्यत एव यस्मात् ।।११११।। अर्थोद्भवो यदि तु शब्दत आदृतः स्याद्, दारिद्र्यशून्यमखिलं जगदेव तर्हि । शब्दस्य चाऽर्थवलतो यदि जन्म मान्यं, कादम्बरीप्रभृतिकाव्यभवो न तर्हि ।।१११२।। तस्मादपोहविषयैव च शब्दतो धी - रर्थक्षयाद् भवति नैव प्रमाणमेषा । नाऽपोह इष्ट इह बाह्यपदार्थरूपः, स्यात् कल्पनात्मकतया प्रतिविम्बनात्मा ।।१११३।। शब्दस्य तेन सह कारणभाव एव, संसर्ग इष्ट इह सौगतसम्प्रदाये । जन्यत्वपर्यवसितैव तु वाच्यताऽत्र, हेतुत्वपर्यवसितं ननु वाचकत्वम् ।।१११४।। वाच्यत्ववद् भवति वाचकताऽप्यपोहे, शब्दे स्वलक्षणतया न च सोक्तनीत्या । तादात्म्यविभ्रमवशादुभयोस्त्वपोहात्, स्याद् वाच्यवाचकतयाऽवगतिश्च लोके ।।१११५।। इत्यादिकं जिनमतेऽप्यनुकूलमेव, एकान्तवादमतखण्डनयुक्तिजालम् । बौद्धप्रदर्शितमतो न च शाब्दबोधो - ऽनेकान्ततत्त्वविषयेष्वपि नैव मानम् ।।१११६।। एकान्तवस्तुनि भवेद् यदि शक्तियोगो, नो तावता भवतु तस्य निराक्रियाऽत्र । स्याद्वादभूषितपदार्थकदम्बकेषु, नो कश्चिदप्यनुपपन्नतयाऽस्ति भावः ।।१११७।। अर्थप्रकाशजनकत्वमनन्यलभ्यं, स्वाभाविकं भवति दीपवदस्य किन्तु ।
याथार्थ्यतादिघटना गुणदोषजन्या, स्याच्च प्रणेतृपुरुषादिपरव्यपेक्षा ।।१११८।। सप्तभङ्गीविचारः -
एकान्तवादिवचनं तत एव सप्त - भङ्गात्मकत्वविरहान्न यथार्थरूपम् । स्याद्वादलाञ्छितपदार्थमतिप्रवीणा, मानात्मना परिणता त्विह सप्तभङ्गी ।।१११९।। सा प्रश्नतो विधिनिषेधनयोर्विवेक - सामस्त्यतो विविधकल्पनयाऽविरोधात् । स्यात्कारलाञ्छितवचोघटनाऽत्र यस्मात्, स्यात् सप्तधैकविषये प्रतिधर्ममेव ।।११२०।। वाक्येऽवधारणमनुक्तमपीष्यते ज्ञैः, स्यादन्यथाऽनभिमतार्थनिवारणं नो । तत्त्वे निरर्थकतया जलताडनादि - तुल्यं वुधः क इह तं तु वदेत् परार्थम् ।।११२१।। कुम्भोऽस्ति नाऽस्त्युत किमित्यपरेण पृष्टो, वाद्यस्ति नाऽस्त्युभयमेव वदन् प्रमाता । स्याद्वादतो भवति सप्तनयावलम्बी, नैकान्ततो भवति नीतिपथावलम्वी ।।११२२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org