________________
॥ श्रीन्यायसिन्धुः ॥
इच्छैव तार्किकमता समयाभिधाना, नेशस्य सा त्विह हि जैमिनिसंश्रितानाम् । शब्दात् तथा सति भवेन्नहि शाब्दवोधः, किन्त्वस्मदादिसदृशस्य भवेत् तथा च ।।१०९७।। शब्दोऽर्थबोधकतया पुरुषेण यद्वत्, सङ्केतितस्तदिव तद्गमकत्वतश्चेत् ।। सङ्केतितोऽर्थ इह तर्हि विपर्ययेण, स्याद् वाच्यवाचकघटा न तयोर्मता किम् ।।१०९८।। नाऽस्मन्मते भवति पर्यनुयोगयोगः, शक्त्या व्यवस्थितिघटाप्रसरोऽस्ति यस्मात् । शब्दार्थहेतुबलतो जननं च तस्याः, शक्तिद्वयात्मकतया न विरोधमेति ।।१०९९।। " प्रत्येकशोऽपि पटकुम्भमठदिशब्दाः, शक्ता घटादिषु पदार्थकदम्बकेषु । स्वव्यञ्जकैस्तु समयैर्नियतार्थनिष्ठैः, स्युस्तेऽपि तन्नियतबोधविधानदक्षाः ।।११००।। एतेन शक्तिरिह वास्तविकी घटादि - शब्दस्य ते यदि घटादिषु तर्हि न स्यात् । एकस्य भिन्नसमयेन विभिन्नदेश - माश्रित्य भिन्नविषयत्वमिति प्रभग्नम् ।।११०१।। सामान्यमात्रमथ जैनमते न शक्यं, नो वा विशेष उभयात्मकमेव वस्तु । स्याद्वादतश्च शबलात्मकमेकतादे - नों तत्र दोषघटना सुगतानुगानाम् ।।११०२।। शब्दा विकल्पजनने निपुणा न चाऽत्र, वस्तुस्वलक्षणमपि प्रभवोऽभिधातुम् । दृश्यं स्वलक्षणमतो न विकल्पभास्यं, शक्तिग्रहोऽपि न च तत्र भवेद् विकल्पात् ।।११०३।। किञ्चाऽनुगाम्यपि न तत् तत एव तत्र, सङ्केतसंस्करणमप्यफलं प्रतीमः । एवं क्षणैकनियते ग्रहसव्यपेक्षो, दुःशक्य एव समयः स्थिरपक्षबाधात् ।।११०४।। सामान्यमेकमपि न प्रमितं विकल्प - ग्रासान्न वृत्तिरपि तस्य भवेत् क्वचित् तु । अर्थक्रियाऽपि मतितो न भवेद् विभिन्ना, किञ्चाऽस्य तेन समयः फलवान्न चाऽत्र ।।११०५।। प्रत्येकपक्षपरिदर्शितदोषजालो, यस्माद् भवेदुभयपक्षगतस्ततो न । स्यात् तद् द्वयं च निरुपद्रवमत्र वाच्यं, नो वाचकं भवति वस्तु तथैव नीत्या ।।११०६।। शब्दार्थयोर्भवति कोऽपि न तात्त्विकः सं-सर्गो यतो भवतु तेन मतिश्च तस्य । इष्टः स चेद् भवति तर्हि स जन्यभाव - स्तादात्म्यरूप उत वा नहि तात्त्विकोऽन्यः ।।११०७।।
अन्त्येऽर्थरूप इह ते यदि शब्द इष्टः, कण्ठदितो नहि तदाऽस्य भवेत् प्रवृत्तिः । कियाऽर्थपूरितमिदं भुवनत्रयं स्या - च्छब्दप्रपूरितमहर्निशमेव तस्मिन् ।।११०८।। .. प्रत्यक्षबाध इह दुर्धर एव दोषो, दण्डादितो घट इवाऽत्र न तस्य शब्दः । नो चक्षुषा घटविलोकनकाल एव, तद्वाचकं च ननु पश्यति कोऽपि जन्तुः ।।११०९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org