________________
८६
शब्दे तु मानवचनं नहि मुख्यवृत्त्या, किन्तूपचारबलतो जनताप्रसिद्धम् । यस्मादनिन्द्यमुपयोगगतं प्रमाण त्वं नाऽन्यनिष्ठमिति जैनमतप्रसिद्धम् ||१०८५ ||
-
वाच्यं यथास्थितमबाधितमेव बुद्ध्वा ज्ञानानुसारिवचनं य इहाऽभिधत्ते ।
आप्तः स एव वचनं च तदुक्तमेवा
शब्दपौद्गलिकत्वविचारः
भेदादलौकिक इहाऽभिमतो जिनादिः ।
आप्तो द्विधा भवति लौकिकतद्विभिन्न पित्रादिको भवति लौकिक आप्तवाक्यो क्त्या नित्यशब्दमतखण्डनमिष्टमत्र || १०८७ ।।
शब्दार्थसम्बन्धविचारः
-
Jain Education International
-
-
-
तत्खण्डनं प्रथममेव तु मानसामा न्यस्याऽभिधानसमये कृतमत्र युक्त्या ।
जन्योऽपि वर्ण इह पौद्गलिको जिनाना - मिष्टो न गौतमसुताभिमतो गुणात्मा || १०८८ || निःस्पर्शतानिबिडदेशप्रवेशितादेः, पूर्वोत्तरावयवदर्शनशून्यतातः ।
चेत् सूक्ष्ममूर्तचलनाननुकूलतातः, शब्दो न पौद्गलिक इत्यतिमन्दमेव ।। १०८९।। आद्ये सिद्धिघटनामल एव हेतौ वाग्वर्गणाधिकरणं न तु खं च कादेः । स्पर्शाश्रयाश्रिततया तदभावरूपो, निःस्पर्शतापदमतो न च हेतुरत्र ।। १०९० ।। स्पर्शाश्रयत्वमनुमामतितः प्रसिद्धं, शब्दाश्रयेऽनुपवनप्रतिकूलवातैः । दूरस्थसन्निहितदेह्युपलम्भभावा भावाश्रयाश्रयतया तु मृगाण्डवद् वः ||१०९१।। अर्हद्वचः प्रमितमेव जिनानुगानां, स्पर्शाश्रयत्वमिह नाऽनुमया प्रसाध्यम् । आप्तागमे स्फुरति को जडबुद्धिभिन्नो, मानान्तराश्रयणतत्पर ईक्षितो ज्ञैः ||१०९२ ॥ हेतुर्द्वितीय इह नाऽव्यभिचारिरूपो, गन्धाश्रयेण ननु यद्व्यभिचारिताऽस्य । सौदामिनीप्रभृतिभिश्च तथा तृतीयो, धूमेन तुर्य इह किं न तथैव दुष्टः ।। १०९३ ।। शब्दे भवेत् खगुणता यदि तर्हि तेन, स्यात् तस्य पौद्गलिकताविरहप्रसिद्धिः । रूपादिवन्न खगुणो बहिरिन्द्रियेण ग्राह्यत्वतो भवति चर्मदृशां तु शब्दः ||१०९४ ।। रूपादिवद् भवति पौद्गलिकस्तु शब्दो, बाह्येन्द्रियग्रहणता न तमन्तरेण । आकाशसिद्धिरवगाहनहेतुभावा ज्जैनागमे न तु तदाश्रिततादिसिद्ध्या ।।१०९५।।
-
-
ऽसंवादिताविरहतो भवति प्रमाणम् ||१०८६||
॥ श्रीन्यायसिन्धुः ॥
-
-
स्वाभाविकार्थगमिका ननु शक्तिरर्थे, शब्दस्य सा समयतोऽवगताऽत्र हेतुः । सङ्केतमात्रबलतोऽर्थप्रकाशको न, शब्दो न वाऽर्थरहितः सुगतप्रसिद्ध्या ||१०९६।।
For Private & Personal Use Only
www.jainelibrary.org