Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 127
________________ १०० ॥ श्रीन्यायसिन्धुः ॥ - किन्त्वस्य साध्यविरहेण विनोपपत्तिर्नैवाऽस्त्यतो भवति तद्विरहानुमाऽत्र । किञ्चाऽस्य साध्यविरहप्रतिबन्धतो ज्ञे रिष्टं विरुद्ध इति नाम निजार्थयुक्तम् ||१२६५|| अन्यस्त्वसिद्धिरिति हेतुगतस्तृतीयो दोषो द्विधा जिनमतेऽभिमतो नयज्ञैः । वादिद्वयान्यतरभेदबलात् स्वरूपा - त्वप्रसिद्धिरिति सोऽभिमतो न चाऽन्यः || १२६६ || पक्षे तु हेतुविरहोऽभिमतः स्वरूपा - सिद्धिर्नयेऽक्षचरणानुमते न जैनैः । यस्मान्न पक्षघटनामतिरार्हतानां हेतौ मताऽनुमितिहेतुतया तृतीया || १२६७।। बाधस्तु दर्शितदिशा ननु पक्षदोषो, नो हेतुदोष इति तद्रजनं यथार्थम् । दोषो न चेष्ट इह सत्प्रतिपक्षनामा, नो न्यूनताविभजने तत आर्हतानाम् ||१२६८ ।। दृष्टान्तदोषभजना नवधाऽन्वयेन, स्यादत्र तावदथ च व्यतिरेकतोऽपि । दृष्टान्तधर्मिणि मतः प्रथमस्त्वसिद्धिः, साध्यस्य सिद्धिजनकस्य तथोभयस्य ।। १२६९|| लिङ्गस्य लिङ्गिन इहाऽभिमतश्च तत्र, सन्देह एवमुभयोरपि सम्मतः सः । सोऽनन्वयश्च कथितोऽकथितान्वयश्च स्याद् व्यत्ययात् तदुभयान्वयदर्शनं च ।।१२७० ।। अन्यस्तु तत्र विरहाप्रतिपत्तिरेवं, साध्यस्य सिद्धिजनकस्य तथोभयोश्च । सन्दिग्धसाध्यविरहोऽभिमतस्तथाऽत्र, सन्दिग्धलिङ्गविरहो जिनसम्प्रदाये || १२७१ ।। सन्दिग्धसाध्यगमकोभयशून्यताऽथ, व्याप्तेरकीर्तनमपि व्यतिरेकयोश्च । तद्दर्शनं च विपरीतत एवमत्र, व्याप्तेरभाव उभयोर्व्यतिरेकयोश्च ।। १२७२ ।। स्यान्न्यायदोष इह चोपनयोपसंहा - राभासभेदभजनाद् द्विविधो जिनानाम् । दृष्टान्तधर्मिणि वचोगमकस्य पक्षे, साध्यस्य वा यदि तदा प्रथमोऽत्र दोषः || १२७३ || साध्योपदर्शनवलाद् गमकोपसंहारस्तु द्वितीय इह जैनमते प्रसिद्धः । एषामुदाहृतिपदं स्वयमेव विज्ञै - र्भाव्यं स्थलेषु विविधेषु विवेकदृष्ट्या ॥ १२७४ || शब्दस्त्वनाप्तपुरुषोच्चरितोऽत्र शब्दा - भासश्चतुर्विधतयाऽपि मतोऽन्यभेदैः । आकाङ्क्षया विरहितानि पदानि यत्र, वाक्यं बुधैरिह खलु प्रथमं तदिष्टम् ।।१२७५ ।। यद्बाधितार्थविषयं तदयोग्यशब्द - सङ्केतगोचर इहाऽभिमतं द्वितीयम् । आसत्तिशून्यपदसङ्घटितं तु वाक्य - मिष्टं तृतीयमिह सन्निधिशून्यनाम ॥ १२७६।। अन्येच्छ्योच्चरितवाक्यमथाऽन्यबोधे - च्छोच्चारितत्वमतिगोचर इष्टमन्त्यम् । एतन्नयानुसरणाद् विवुधैर्विचार्य, सर्वे नया जिनमतानुगता यतो वै ।।१२७७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158